ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम्; आत्मादिरुत्पत्तिः प्रलयश्चात्मान्तःइत्यप्युक्तम्सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योःबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव ।’ (क. उ. १ । ३ । ३) इन्द्रियाणि हयानाहुः’ (क. उ. १ । ३ । ४) इत्यादिलिङ्गेभ्यःतयोरपि कस्मिंश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसङ्ग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्मजत्वाभ्युपगमात्अपि आथर्वणे उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्तेएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ (मु. उ. २ । १ । ३) इतितस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् , ; अविशेषात्यदि तावद्भौतिकानि करणानि, ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम्भवति भौतिकत्वे लिङ्गं करणानाम्अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ (छा. उ. ६ । ५ । ४) इत्येवंजातीयकम्व्यपदेशोऽपि क्वचिद्भूतानां करणानां ब्राह्मणपरिव्राजकन्यायेन नेतव्यःअथ त्वभौतिकानि करणानि, तथापि भूतोत्पत्तिक्रमो करणैर्विशेष्यतेप्रथमं करणान्युत्पद्यन्ते चरमं भूतानि, प्रथमं वा भूतान्युत्पद्यन्ते चरमं करणानीतिआथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां , तत्रोत्पत्तिक्रम उच्यतेतथा अन्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते — ‘प्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत मनोऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजतइत्यादिनातस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः ॥ १५ ॥

अन्तराविशेषात् ।

उक्तभूतोत्पत्तिलयक्रममुपजीव्य स किं करणोत्पत्तिक्रमेण विरुध्यते न वेति करणानामभौतिकत्वभौतिकत्वाभ्यां सन्देहे वृत्तानुवादपूर्वकं पूर्वपक्षमाह -

भूतानामित्यादिना ।

करणान्येव न सन्तीति वदन्तं प्रत्याह -

सेन्द्रियस्येति ।

'मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ', 'श्रोत्रादीनीन्द्रियाण्यन्ये' इति स्मृतिर्द्रष्टव्या । अन्यपराः शब्दाः लिङ्गानीत्युच्यन्ते ।

करणानां क्रमाकाङ्क्षामाह -

तयोरिति ।

आकाङ्क्षायां श्रुतिसिद्धः क्रमो ग्राह्य इत्याह -

अपि चेति ।

विज्ञायतेऽनेनेति विज्ञानं सेन्द्रिया बुद्धिः । आत्मनो भूतानां चान्तरा मध्ये तल्लिङ्गात्सृष्टिवाक्यात् 'एतस्माज्जायते प्राणो मनः' इत्यादिरूपाद्विज्ञानमनसी अनुक्रम्येते । तथा च करणक्रमेण पूर्वोक्तक्रमभङ्ग इति शङ्कासूत्रांशार्थः । न च करणानां भौतिकत्वाद्भूतानन्तर्यमिति वाच्यम् , तेषां भौतिकत्वे मानाभावात् । तथा चात्मनः प्रथममाकाशस्य जन्म पश्चाद्वायोरित्युक्तक्रमस्यात्मनः करणानि ततो भूतानीति क्रमेण विरोध इति तित्तिर्यथर्वणश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति पूर्वपक्षफलम् ।

सिद्धान्तयति -

नेति ।

'आत्मन आकाशः' इत्यादि तित्तिरिश्रुतौ पञ्चम्याः कार्यकारणभावेनार्थतः क्रमो भाति । न तस्याथर्वणपाठेन बाधः अर्थक्रमविरोधिक्रमविशेषस्याश्रुतेः पाठक्रमस्यार्थक्रमधीशेषस्य शेषिबाधकत्वायोगादितः श्रुत्यर्थक्रमाविरोधेन पाठस्य नेयत्वाद्भूतानन्तर्यं करणानामित्यर्थः ।

किञ्च भौतिकत्वात्तेषां तदानन्तर्यमित्याह -

यदीति ।

न च प्राणस्याब्विकारत्वायोगादन्नमयमित्यादिमयटो न विकारार्थतेति वाच्यम् , करणानां विभक्तत्वेन कार्यतया कारणाकाङ्क्षायामन्नमयमित्यादिश्रुतेराकाङ्क्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वात् । प्राचुर्यार्थत्वे त्वनाकाङ्क्षितोक्तिप्रसङ्गाच्छ्रुत्यैव तेजोबन्नप्राशने वाक्प्राणमनसां वृद्धिस्तदभावे तन्नाश इति विकारत्वस्य दर्शितत्वान्न विवादावसरः । यद्वा स्थूलभूताधीना तेषां वृद्धिर्विकारो मयडर्थः श्रूयमाणो भौतिकत्वे लिङ्गं प्राणेन्द्रियमनांसि भौतिकानि भूताधीनवृद्धिमत्त्वाद्देहवदिति भावः ।

ननु तेषां भौतिकत्वे कथमाथर्वणे पृथक्तज्जन्मकथनं भूतजन्मोक्त्यैव तज्जन्मसिद्धेरित्यत आह -

व्यपदेशोऽपीति ।

प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि श्रुत्यविरोधमाह -

अथ त्विति ।

करणानां भूतानां च पूर्वापरत्वे मानाभावान्नोक्तभूतक्रमभङ्गः । न चाथर्वणवाक्यं मानं पाठमात्रत्वादित्यर्थः ।

तर्हि कथं क्रमनिर्णयः, तत्राह -

तथेति ।

इदं स्थूलमुत्पत्तेः प्राक्प्रजापतिः सूत्रात्मासीत् । अत्र सूक्ष्मभूतात्मकप्रजापतिसर्गः प्रथमस्ततो मनआदिसर्ग इति क्रमो भातीति भावः ।

एवञ्च भूतकरणोत्पत्तिश्रुत्योरविरोधाद्ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तफलं निगमयति -

तस्मादिति ॥१५॥