ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
एवं प्राप्ते, ब्रूमःनात्मा जीव उत्पद्यत इतिकस्मात् ? अश्रुतेः; ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषुननु क्वचिदश्रवणमन्यत्र श्रुतं वारयतीत्युक्तम्; सत्यमुक्तम्; उत्पत्तिरेव त्वस्य सम्भवतीति वदामःकस्मात् ? नित्यत्वाच्च ताभ्यःचशब्दादजत्वादिभ्यश्चनित्यत्वं ह्यस्य श्रुतिभ्योऽवगम्यते, तथा अजत्वम् अविकारित्वम् अविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति चैवंरूपस्योत्पत्तिरुपपद्यतेताः काः श्रुतयः ? जीवो म्रियते’ (छा. उ. ६ । ११ । ३) वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) अजो नित्यः शाश्वतोऽयं पुराणः’ (क. उ. १ । २ । १८) तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) एष इह प्रविष्ट नखाग्रेभ्यः’ (बृ. उ. १ । ४ । ७) तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इत्येवमाद्या नित्यत्ववादिन्यः सत्यः जीवस्योत्पत्तिं प्रतिबध्नन्तिननु प्रविभक्तत्वाद्विकारः, विकारत्वाच्चोत्पद्यतेइत्युक्तम्; अत्रोच्यतेनास्य प्रविभागः स्वतोऽस्ति, एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति श्रुतेःबुद्ध्याद्युपाधिनिमित्तं तु अस्य प्रविभागप्रतिभानम् , आकाशस्येव घटादिसम्बन्धनिमित्तम्तथा शास्त्रम् वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः’ (बृ. उ. ४ । ४ । ५) इत्येवमादि ब्रह्मण एवाविकृतस्य सतोऽस्यैकस्यानेकबुद्ध्यादिमयत्वं दर्शयतितन्मयत्वं अस्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वम्स्त्रीमयो जाल्म इत्यादिवत्द्रष्टव्यम्यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणम् , तदप्यत एवोपाधिसम्बन्धान्नेतव्यम्उपाध्युत्पत्त्या अस्योत्पत्तिः, तत्प्रलयेन प्रलय इतितथा दर्शयतिप्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति प्रेत्य संज्ञास्ति’ (बृ. उ. ४ । ५ । १३) इति; तथोपाधिप्रलय एवायम् , नात्मविलयःइत्येतदपि — ‘अत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि प्रेत्य संज्ञास्ति’ — इति प्रश्नपूर्वकं प्रतिपादयति वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्राऽसंसर्गस्त्वस्य भवति’ (बृ. उ. ४ । ५ । १४)इतिप्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात्; लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव, अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४ । ३ । १५) इति प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात्तस्मात् नैवात्मोत्पद्यते प्रविलीयते वेति ॥ १७ ॥

अजत्वादिश्रुतिः कल्पमध्ये जीवस्यानुत्पत्त्यादिविषया, तत्त्वमसीति श्रुतिश्च मृद् , घट इत्यभेदवाक्यवद्व्याख्येयेति प्राप्ते सिद्धान्तयति -

एवमिति ।

धर्मिवत्सत्यो विभागो हेतुरौपाधिको वा । नाद्यः, असिद्धेरित्याह -

अत्रोच्यते नास्येति ।

द्वितीये जीवस्य न स्वतो विकारत्वसिद्धिः, अप्रयोजकत्वादित्याह -

बुद्ध्यादीति ।

औपाधिकभेदे मानमाह -

तथा चेति ।

मयटो विकारार्थत्वमाशङ्क्याह -

तन्मयत्वं चेति ।

जाल्मः कामजडः स्त्रीपरतन्त्रः । स्त्रीमय इतिवज्जीवस्य स्वरूपाज्ञानाद्बुद्ध्यादिपरतन्त्रत्वेन भेदकर्तृत्वादिभाक्त्वात्प्राचुर्यार्थे मयट्प्रयोग इत्यर्थः ।

लिङ्गं निरस्य तदनुग्राह्यश्रुतेर्गतिमाह -

यदपीति ।

जीवस्यौपाधिकजन्मनाशयोः श्रुतिमाह -

तथेति ।

एतेभ्यो देहात्मन परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति । प्रेत्यौपाधिकमरणानन्तरं संज्ञा नास्तीत्यर्थः ।

ननु प्रज्ञानघनः, संज्ञा नास्तीति च विरुद्धमित्यत आह -

तथेति ।

उपाधिलयाद्विशेषज्ञानाभाव एव संज्ञाभावो नात्मस्वरूपविज्ञानाभाव इत्युत्तरं प्रतिपादयति श्रुतिरित्यन्वयः । अत्रैवात्मनि विज्ञानघने प्रेत्यसंज्ञा नास्तीत्युक्त्या मा मोहान्तं मोहमध्यं भ्रान्तिमापीपददापादितवानिममर्थं न जानामि ब्रूहि त्वदुक्तेरर्थमिति मैत्रेयीप्रश्नार्थः ।

मुनिराह -

न वा इति ।

मोहं मोहकरं वाक्यमुच्छित्तिः पूर्वावस्थानाशो धर्मोऽस्येत्युच्छित्तिधर्मा परिणामी स नेत्यनुच्छित्तिधर्मापरिणामी, तस्मादविनाशीत्यर्थः ।

तर्हि न प्रेत्य संज्ञेति कथमुक्तम् , तत्राह -

मात्रेति ।

मात्राभिर्विषयैरसंसर्गात्तथोक्तमित्यर्थः ।

बिम्बप्रतिबिम्बयोरिव विरुद्धधर्मभेदोऽध्यस्त इत्यत्र हेतुमाह -

अत ऊर्ध्वमिति ।

जीवस्य विकारित्वे मुक्त्ययोगात्तत्त्वमसीति वाक्यमखण्डार्थमिति च वक्तव्यम् , तथा च फलवत्प्रधानवाक्यापेक्षितजीवनित्यत्वश्रुतीनां बलवत्त्वादुत्पत्त्याधिकमध्यस्तमनुवदन्त्युत्पत्त्यादिश्रुतय इत्यविरोध इति सिद्धम् ॥१७॥