ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
ज्ञोऽत एव ॥ १८ ॥
किं काणभुजानामिवागन्तुकचैतन्यः, स्वतोऽचेतनः, आहोस्वित्साङ्ख्यानामिव नित्यचैतन्यस्वरूप एव, इति वादिविप्रतिपत्तेः संशयःकिं तावत्प्राप्तम् ? आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजम् , अग्निघटसंयोगजरोहितादिगुणवदिति प्राप्तम्नित्यचैतन्यत्वे हि सुप्तमूर्छितग्रहाविष्टानामपि चैतन्यं स्यात्ते पृष्टाः सन्तः किञ्चिद्वयमचेतयामहिइति जल्पन्ति; स्वस्थाश्च चेतयमाना दृश्यन्तेअतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति

ज्ञोऽत एव ।

'आत्मैवास्य ज्योतिः' इत्याद्यात्मस्वप्रकाशत्वश्रुतीनां 'पश्यंश्चक्षुः शृण्वञ्च्छ्रोत्रम्' इत्यनित्यज्ञानवत्त्वश्रुतिभिर्विरोधोऽत्र निरस्यते । अस्य लोकस्य चक्षुर्द्रष्टा श्रोत्रं श्रोतेत्यर्थः । प्रागुक्तजीवानुत्पत्तिहेतुमादाय स्वप्रकाशत्वसाधनाद्धेतुसाध्यभावः सङ्गतिः । अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति जीवस्य स्वप्रकाशता सिध्यति । न चैवं गतार्थता, अनुत्पन्नस्यापि जीवस्य स्वप्रकाशत्वे ज्ञानसाधनवैयर्थ्यमिति तर्कसहितानित्यज्ञानश्रुतिबलेन स्वप्रकाशत्वश्रुतेर्बाध्यतया ब्रह्मान्यत्वशङ्कायां तदैक्ययोग्यतायै स्वप्रकाशत्वस्यात्र साधनात् । तथा च पूर्वपक्षे जीवस्य ब्रह्मैक्यायोग्यता सिद्धान्ते तद्योग्यतेत्यापादसमाप्तेः फलमवगन्तव्यम् । इष्टापत्तिं निराचष्टे -

ते पृष्टा इति ।

साधनाधीनज्ञानत्वान्न स्वप्रकाशो जीवो व्यतिरेकेणेश्वरवदित्याह -

अतः कादाचित्केति ।

यथाश्रुते भाष्ये हेतोः साध्याविशेष इति मन्तव्यम् ।