ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
ज्ञोऽत एव ॥ १८ ॥
एवं प्राप्ते, अभिधीयतेज्ञः नित्यचैतन्योऽयमात्माअत एवयस्मादेव नोत्पद्यते, परमेव ब्रह्म अविकृतमुपाधिसम्पर्काज्जीवभावेनावतिष्ठतेपरस्य हि ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम्विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इत्यादिषु श्रुतिषुतदेव चेत्परं ब्रह्म जीवः, तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यतेविज्ञानमयप्रक्रियायां श्रुतयो भवन्तिअसुप्तः सुप्तानभिचाकशीति’ (बृ. उ. ४ । ३ । ११) अत्रायं पुरुषः स्वयंज्योतिर्भवति’ (बृ. उ. ४ । ३ । ९) इति, हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०) इत्येवंरूपाःअथ यो वेदेदं जिघ्राणीति आत्मा’ (छा. उ. ८ । १२ । ४) इति सर्वैः करणद्वारैःइदं वेद, इदं वेदइति विज्ञानेनानुसन्धानात् तद्रूपत्वसिद्धिःनित्यचैतन्यस्वरूपत्वे घ्राणाद्यानर्थक्यमिति चेत् , , गन्धादिविषयविशेषपरिच्छेदार्थत्वात्तथा हि दर्शयति — ‘गन्धाय घ्राणम्इत्यादियत्तु सुप्तादयो चेतयन्त इति, तस्य श्रुत्यैव परिहारोऽभिहितः , सुषुप्तं प्रकृत्ययद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति; हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्; तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ (बृ. उ. ४ । ३ । २३) इत्यादिनाएतदुक्तं भवतिविषयाभावादियमचेतयमानता, चैतन्याभावादितियथा वियदाश्रयस्य प्रकाशस्य प्रकाश्याभावादनभिव्यक्तिः, स्वरूपाभावात्तद्वत्वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवतितस्मान्नित्यचैतन्यस्वरूप एव आत्मेति निश्चिनुमः ॥ १८ ॥

अतो जीवस्य स्वप्रकाशत्वश्रुतिर्बाध्येति प्राप्ते सिद्धान्तयति -

एवमिति ।

चेच्छब्दो निश्चयार्थः ।

न केवलं स्वप्रकाशब्रह्माभेदाज्जीवस्य स्वप्रकाशता किन्तु श्रुतितोऽपीत्याह -

विज्ञानमयेति ।

योऽयं विज्ञानमय इति प्रकरण इत्यर्थः । असुप्तः स्वयं भासमान एवात्मा सप्तांल्लुप्तव्यापारान्वागादीनभिलक्ष्य चाकशीति । सुप्तार्थान्पश्यतीति यावत् । अत्र स्वप्ने विज्ञातुर्बुद्धिसत्त्वस्य साक्षिणो विज्ञातेर्विनाशो नास्तीत्यर्थः ।

घ्राणादिजन्यगन्धादिज्ञानानुसन्धानसिद्धये आत्मनो ज्ञानरूपत्वं वाच्यमिति श्रुत्यन्तरेणाह -

अथेति ।

आत्मनो नित्यचिद्रूपत्वेऽपि स्वतोऽसङ्गतया गन्धाद्यसम्बन्धात्तत्सम्बन्धघटनात्मकवृत्त्यर्थानि ज्ञानसाधनानीति न तेषां वैयर्थ्यमित्याह -

न गन्धेति ।

परिच्छेदो वृत्तिः । गन्धाय तद्गोचरान्तःकरणवृत्तये इत्यर्थः ।

सुप्ताद्यवस्थास्वात्मसत्त्वेऽपि चैतन्याभावान्नात्मा चिद्रूप इत्युक्तं दूषयति -

यत्त्विति ।

तत्तदासुषुप्तौ न पश्यतीति यत्तत्पश्यन्नेवालुप्तज्ञान एव सन्न पश्यतीत्यत्र हेतुः -

न हीति ।

नाशायोग्यत्वादित्यर्थः ।

किमिति न पश्यतीत्यत आह -

न त्विति ।

वृत्तेः साधनाधीनत्वोक्त्या स्वरूपज्ञानस्यासाधनाधीनत्वं हेतुरसिद्ध इत्युक्तम् । साधनवैयर्थ्यतर्कोऽपि निरस्तः । शृण्वन्नित्याद्यनित्यज्ञानश्रुतीनां वृत्तिविषयत्वं व्याख्यातम् । आत्मा न ज्ञानम् , द्रव्यत्वात् , इत्यादितर्काश्चागमबाधिताः । फलवत्प्रधानवाक्यापेक्षितस्वप्रकाशत्वागमस्य बलवत्त्वात् । किञ्च निरवयवात्मनो मनःसंयोगान्नानित्यज्ञानगुणता समवायाभावाच्च न स्वसमवेतज्ञानवेद्यता कर्मकर्तृत्वविरोधाच्च । किञ्च ज्ञानत्वस्यैकवृत्तित्वे लाघवादात्मैव ज्ञानं वृत्तेश्च मनःपरिणामत्वश्रुत्या 'कामः सङ्कल्पः' इत्याद्यया जडत्वान्नास्माकं ज्ञानद्वैविध्यगौरवमित्यनवद्यमात्मनः स्वप्रकाशत्वमिति सिद्धम् ॥१८॥