ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥
इदानीं तु किंपरिमाणो जीव इति चिन्त्यतेकिमणुपरिमाणः, उत मध्यमपरिमाणः, आहोस्वित् महापरिमाण इतिननु नात्मोत्पद्यते नित्यचैतन्यश्चायमित्युक्तम्अतश्च पर एव आत्मा जीव इत्यापततिपरस्य आत्मनोऽनन्तत्वमाम्नातम्तत्र कुतो जीवस्य परिमाणचिन्तावतार इतिउच्यतेसत्यमेतत्; उत्क्रान्तिगत्यागतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्तिस्वशब्देन अस्य क्वचिदणुपरिमाणत्वमाम्नायतेतस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भःतत्र प्राप्तं तावत्उत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नोऽणुपरिमाणो जीव इतिउत्क्रान्तिस्तावत् यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति’ (कौ. उ. ३ । ४) इति; गतिरपिये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’ (कौ. उ. १ । २) इति; आगतिरपितस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे’ (बृ. उ. ४ । ४ । ६) इति; आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति हि विभोश्चलनमवकल्पत इतिसति परिच्छेदे, शरीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वात् अणुरात्मेति गम्यते ॥ १९ ॥

स्वप्रकाशत्वादात्मस्वरूपादीषद्बहिष्ठं परिमाणमेवाश्रिताश्रयत्वेनान्तर्बहिर्भावेन वा सङ्गत्या विचारयति -

उत्क्रान्तिगत्यागतीनाम् ।

विषयसंशयौ दर्शयति -

इदानीमिति ।

नात्माश्रुतेरित्यादिना गतार्थत्वमस्याशङ्क्यात्माणुत्वश्रुतीनां महत्त्वश्रुतीनां चाविरोधकथनार्थमस्याधिकरणस्यारम्भ इत्याह -

नन्वित्यादिना ।

न केवलं श्रुतोत्क्रान्त्याद्यनुपपत्त्यात्मनोऽणुत्वं किन्त्वेषोऽणुरात्मेति श्रुत्यापीत्याह -

स्वशब्देनेति ।

पूर्वपक्षे जीवस्याणुत्वाद्ब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकुर्वन्पूर्वपक्षमाह -

तत्र प्राप्तमित्यादिना ।

श्रुतेरणुरिति उत्तरसूत्रादाकृष्य सूत्रं पूरितम् । उत्क्रान्तिः श्रूयत इति शेषः । स मुमूर्षुः जीव एतैर्बुद्ध्यादिभिस्तस्माच्चन्द्रलोकादिमं लोकं प्रति कर्म कर्तुमायातीत्यर्थः ॥१९॥