ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्वशब्दोन्मानाभ्यां च ॥ २२ ॥
इतश्चाणुरात्मा, यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयतेएषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश’ (मु. उ. ३ । १ । ९) इतिप्राणसम्बन्धाच्च जीव एवायमणुरभिहित इति गम्यतेतथोन्मानमपि जीवस्याणिमानं गमयतिबालाग्रशतभागस्य शतधा कल्पितस्य भागो जीवः विज्ञेयः’ (श्वे. उ. ५ । ९) इति; आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५ । ८) इति उन्मानान्तरम् ॥ २२ ॥

एवमुत्क्रान्त्यादिश्रुत्याणुत्वमनुमितम् , तत्र श्रुतिमप्याह -

स्वशब्देति ।

बालाग्रादुद्धृतः शततमो भागस्तस्मादप्युद्धृतः शततमो भागो जीव इति, उद्धृत्य मानमुन्मानमत्यन्ताल्पत्वमित्यर्थः । बालः केशः, तोत्रप्रोतायःशलाकाग्रमाराग्रम् । तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा ॥२२॥