ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
गुणाद्वा लोकवत् ॥ २५ ॥
चैतन्यगुणव्याप्तेर्वा अणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं विरुध्यतेयथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्यं करोतितद्वत्स्यात् कदाचिच्चन्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आह्लादयितृत्वम् त्वणोर्जीवस्यावयवाः सन्ति, यैरयं सकलदेहं विप्रसर्पेत्इत्याशङ्क्यगुणाद्वा लोकवत्इत्युक्तम् ॥ २५ ॥

आत्मवत्तद्धर्मज्ञानस्याप्यणुत्वं स्वतः, कादाचित्कं तु देहपरिमाणत्वमित्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह -

गुणाद्वेति ।

वाशब्देन चन्दनदृष्टान्तापरितोषः सूचितस्तमाह -

स्यादिति ॥२५॥