ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तथा च दर्शयति ॥ २७ ॥
हृदयायतनत्वमणुपरिमाणत्वं आत्मनः अभिधाय तस्यैव लोमभ्य नखाग्रेभ्यः’ (छा. उ. ८ । ८ । १) इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति ॥ २७ ॥

आत्मनश्चैतन्यगुणेनैव देहव्याप्तिरित्यत्र श्रुतिमाह सूत्रकारः -

तथा च दर्शयतीति ।

तद्व्याचष्टे -

हृदयेति ॥२७॥