ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
तुशब्दः पक्षं व्यावर्तयतिनैतदस्तिअणुरात्मेतिउत्पत्त्यश्रवणात् परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम्परमेव चेद्ब्रह्म जीवः, तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हतिपरस्य ब्रह्मणो विभुत्वमाम्नातम्तस्माद्विभुर्जीवःतथा वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ४ । २२) इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति अणोर्जीवस्य सकलशरीरगता वेदनोपपद्यतेत्वक्सम्बन्धात्स्यादिति चेत् , ; कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येतत्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्ततेत्वक्च कृत्स्नशरीरव्यापिनीतिपादतल एव तु कण्टकनुन्ना वेदनां प्रतिलभन्ते अणोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात्गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेतप्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम्गन्धोऽपि गुणत्वाभ्युपगमात्साश्रय एव सञ्चरितुमर्हति, अन्यथा गुणत्वहानिप्रसङ्गात्; तथा चोक्तं द्वैपायनेन — ‘उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणाःपृथिव्यामेव तं विद्यादपो वायुं संश्रितम्इतियदि चैतन्यं जीवस्य समस्तं शरीरं व्याप्नुयात् , नाणुर्जीवः स्यात्; चैतन्यमेव हि अस्य स्वरूपम् , अग्नेरिवौष्ण्यप्रकाशौनात्र गुणगुणिविभागो विद्यत इतिशरीरपरिमाणत्वं प्रत्याख्यातम्परिशेषाद्विभुर्जीवः

तत्रात्माणुत्वविभुत्वश्रुतीनां विरोधादप्रामाण्यप्राप्तावणुत्वं जीवस्य विभुत्वमीश्वरस्येत्यविरोध इत्येकदेशिपक्षो दर्शितः । तं दूषयन्सिद्धान्तसूत्रं व्याचष्टे -

तुशब्द इत्यादिना ।

तस्माद्ब्रह्माभिन्नत्वाद्विभुर्जीवः ब्रह्मवदित्यनुमानानुगृहीते श्रुतिस्मृती आह -

तथा च स वा एष इति ।

नित्यः सर्वगतः स्थाणुरित्याद्याः स्मार्तवादाः । एतेन जीवस्य ब्रह्माभेदज्ञानेऽणुत्वाभावधीस्तस्यां तदित्यन्योन्याश्रय इति निरस्तम् । प्रधानमहावाक्यानुगुणश्रुतिस्मृतिभिरणुत्वाभावनिश्चयानन्तरमभेदज्ञानात्प्रधानवाक्यविरोधे गुणभूताणुत्वश्रुतीनामौपाधिकाणुत्वविषयत्वकल्पनात् । 'गुणे त्वन्याय्यकल्पना' इति न्यायादिति भावः । किञ्च सर्वदेहव्यापिशैत्यानुभवान्यथानुपपत्त्याणुत्वश्रुतयोऽध्यस्ताणुत्वविषयत्वेन कथञ्चिदर्थवादा नेयाः ।

लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह -

न चाणोरिति ।

शङ्कते -

त्वगिति ।

यद्यण्वात्मसम्बन्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्तर्ह्यतिप्रसङ्ग इति दूषयति -

नेति ।

प्रसङ्गस्येष्टत्वं निरस्यति -

पादतल एवेति ।

तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देहव्याप्त्यदर्शनात् , तथा चाण्वात्मसंयोगस्त्वगेकदेशस्थ एवेति देहव्यापिवेदनानुपपत्तिः । न च सिद्धान्ते त्वगात्मसम्बन्धस्य व्यापित्वात्कण्टकसम्बन्धे देहव्यापिवेदनाप्रसङ्ग इति वाच्यम् । यावती विषयसम्बद्धा त्वक्तावद्व्याप्यात्मसम्बन्धस्तावद्व्यापिवेदनाहेतुरिति नियमात् । न चैवं विषयत्वक्सम्बन्ध एव तद्धेतुरस्तु किमात्मव्याप्त्येति वाच्यम् । वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्याणामल्पमुपादानं सम्भवति कार्यस्योपादानाद्विश्लेषानुपपत्तेः । न चैषां व्यापकत्वमसिद्धम् , सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वाङ्गव्यापिदुःखसुखानुभवस्य दुरपह्नवत्वात् ।

यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह -

न चाणोरिति ।

गन्धो नाश्रयाद्विश्लिष्टः, गुणत्वात् , रूपवदित्यत्रागममाह -

तथा चोक्तमिति ।

न च प्रत्यक्षबाधः, गन्धस्य प्रत्यक्षत्वेऽपि निराश्रयत्वस्याप्रत्यक्षत्वान्महतां त्रसरेणूनामनुद्भूतस्पर्शानामुद्भूतगन्धानामागमनात्स्फुटगन्धोपलम्भसम्भवः, अवयवान्तरप्रवेशान्न सहसा मूलद्रव्यक्षय इति भावः ।

पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्यात्माणुत्वं निरस्तम् , सम्प्रति तस्य गुणत्वमसिद्धमित्याह -

यदि च चैतन्यमिति ।