ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥
यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति अविद्यमानान्युत्पद्यन्ते, षण्डादीनामपि तदुत्पत्तिप्रसङ्गात्एवमयमपि बुद्धिसम्बन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवतिएवं हि एतद्युज्यते हि आकस्मिकी कस्यचिदुत्पत्तिः सम्भवति, अतिप्रसङ्गात्दर्शयति सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम्सति सम्पद्य विदुः सति सम्पद्यामह इति ।’ (छा. उ. ६ । ९ । २) इह व्याघ्रो वा सिꣳहो वा’ (छा. उ. ६ । ९ । ३) इत्यादिनातस्मात्सिद्धमेतत्यावदात्मभावी बुद्ध्याद्युपाधिसम्बन्ध इति ॥ ३१ ॥

स्थूलसूक्ष्मात्मना बुद्धेर्यावदात्मभावित्वमस्तीत्याह -

पुंस्त्वेति ।

पुंस्त्वं रेतः । आदिपदेन श्मश्वादिग्रहः । अस्य बुद्धिसम्बन्धस्येत्यर्थः ।

स्वापे बीजात्मना सतो बुद्धयादेः प्रबोधेऽभिव्यक्तिरित्यत्र श्रुतिमाह -

दर्शयतीति ।

न विदुरित्यविद्यात्मकबीजसद्भावोक्तिः । ते व्याघ्रादयः पुनराविर्भवन्ति इत्यभिव्यक्तिनिर्देशः ॥३१॥