ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसम्बन्ध आत्मनोऽभ्युपगन्तुम् , सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इति वचनात् , कृत्स्नविकारप्रलयाभ्युपगमाच्चतत्कथं यावदात्मभावित्वं बुद्धिसम्बन्धस्येति, अत्रोच्यते

यावदात्मभावित्वस्यासिद्धिं शङ्कते -

नन्विति ।

सुषुप्तौ बुद्धिसत्त्वे ब्रह्मसम्पत्तिर्न स्यात् । प्रलये तत्सत्त्वे प्रलयव्याहतिरित्यर्थः ।