बुद्धिसद्भावे मानमाह सूत्रकारः -
नित्येति ।
'मनसा ह्येव पश्यति', 'बुद्धिश्च न विचेष्टति', 'विज्ञानं यज्ञं तनुते', 'चेतसा वेदितव्यः', 'चित्तं च चेतयितव्यम्' इति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः ।
कथमेकस्यानेकधोक्तिः, तत्राह -
क्वचिच्चेति ।
गर्ववृत्तिकोऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् ।
यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति -
तच्चेत्यादिना ।
सूत्रं योजयति -
अन्यथेति ।
पञ्चेन्द्रियाणां पञ्चविषयसम्बन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनोऽतिरिक्तसामग्र्याः सत्त्वात् । यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः । अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः ।
ननु सत्यपि कराग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे -
अथवेति ।
सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनचिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः ।
अस्तु प्रतिबन्ध इत्यत आह -
न चेति ।
न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् । प्रतिबन्धकाभावात् । न च दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् । न च व्यासङ्गः, प्रतिबन्धकमनोऽसत्त्वे तस्यासम्भवात् । तथा हि - रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनोऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः ।
एतदभिप्रेत्योपसंहरति -
तस्मादिति ।
अवधानं बुभुत्सा । न चानिच्छतोऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम् , अनेकविषयसन्निधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् । तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् । इच्छादिधर्मिणैवात्मना व्यासङ्गोपपत्तेः ।
सम्प्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह -
तथा चेति ।
न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह -
कामादयश्चेति ।
बुद्धेः प्रामाणिकत्वोक्तिफलमाह -
तस्मादिति ॥३२॥