सत्यपि स्वातन्त्र्ये कारकवैचित्र्यादनियता प्रवृत्तिरिति सूत्रेण परिहरति -
यथेति ।
दृष्टान्तासम्प्रतिपत्त्या शङ्कते -
उपलब्धावपीति ।
चक्षुरादीनां चैतन्येन विषयसम्बन्धार्थत्वात्स्वसम्बन्धोपलब्धौ चात्मनश्चैतन्यस्वभावत्वेन स्वातन्त्र्याद्दृष्टान्तसिद्धिरित्याह -
नेति ।
नन्वात्मा विषयसम्बन्धाय करणान्यपेक्षते चेत्कथं स्वतन्त्र इत्याशङ्क्यमाह -
अपि चेति ।
स्वातन्त्र्यं नाम न स्वान्यानपेक्षत्वम् , ईश्वरस्यापि प्राणिकर्मापेक्षत्वेनास्वातन्त्र्यप्रसङ्गात् । किं तु स्वेतरकारकप्रयोक्तृत्वे सति कारकाप्रेर्यत्वं स्वातन्त्र्यं तेन स्वतन्त्रोऽपि जीव इष्टसाधनत्वभ्रान्त्यनिष्टसाधनमप्यनुतिष्ठतीत्यनियता प्रवृत्तिः स्वातन्त्र्यं चेत्यविरुद्धमित्यर्थः ॥३७॥