ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
उपलब्धिवदनियमः ॥ ३७ ॥
यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽपि अनियमेनेष्टमनिष्टं च उपलभते, एवमनियमेनैवेष्टमनिष्टं च सम्पादयिष्यति । उपलब्धावप्यस्वातन्त्र्यम् , उपलब्धिहेतूपादानोपलम्भादिति चेत् , न । विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् । उपलब्धौ तु अनन्यापेक्षत्वमात्मनः, चैतन्ययोगात् । अपि च अर्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति, देशकालनिमित्तविशेषापेक्षत्वात् । न च सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते । भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम् । सहकारिवैचित्र्याच्च इष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते ॥ ३७ ॥

सत्यपि स्वातन्त्र्ये कारकवैचित्र्यादनियता प्रवृत्तिरिति सूत्रेण परिहरति -

यथेति ।

दृष्टान्तासम्प्रतिपत्त्या शङ्कते -

उपलब्धावपीति ।

चक्षुरादीनां चैतन्येन विषयसम्बन्धार्थत्वात्स्वसम्बन्धोपलब्धौ चात्मनश्चैतन्यस्वभावत्वेन स्वातन्त्र्याद्दृष्टान्तसिद्धिरित्याह -

नेति ।

नन्वात्मा विषयसम्बन्धाय करणान्यपेक्षते चेत्कथं स्वतन्त्र इत्याशङ्क्यमाह -

अपि चेति ।

स्वातन्त्र्यं नाम न स्वान्यानपेक्षत्वम् , ईश्वरस्यापि प्राणिकर्मापेक्षत्वेनास्वातन्त्र्यप्रसङ्गात् । किं तु स्वेतरकारकप्रयोक्तृत्वे सति कारकाप्रेर्यत्वं स्वातन्त्र्यं तेन स्वतन्त्रोऽपि जीव इष्टसाधनत्वभ्रान्त्यनिष्टसाधनमप्यनुतिष्ठतीत्यनियता प्रवृत्तिः स्वातन्त्र्यं चेत्यविरुद्धमित्यर्थः ॥३७॥