ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत्राहयदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात् , स्वतन्त्रः सन् प्रियं हितं चैव आत्मनो नियमेन सम्पादयेत् , विपरीतम्विपरीतमपि तु सम्पादयन्नुपलभ्यते स्वतन्त्रस्यात्मनः ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति, अत उत्तरं पठति

सूत्रान्तरमवतारयति -

अत्राहेति ।

जीवः स्वतन्त्रश्चेदिष्टमेव कुर्यादस्वतन्त्रश्चेन्न कर्ता, 'स्वतन्त्रः कर्ता' इति न्यायादित्यर्थः ।