ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अपि च स्मर्यते ॥ ४५ ॥
ईश्वरगीतास्वपि ईश्वरांशत्वं जीवस्य स्मर्यतेममैवांशो जीवलोके जीवभूतः सनातनः’ (भ. गी. १५ । ७) इतितस्मादप्यंशत्वावगमःयत्तूक्तम् , स्वामिभृत्यादिष्वेव ईशित्रीशितव्यभावो लोके प्रसिद्ध इतियद्यप्येषा लोके प्रसिद्धिः, तथापि शास्त्रात्तु अत्र अंशांशित्वमीशित्रीशितव्यभावश्च निश्चीयतेनिरतिशयोपाधिसम्पन्नश्चेश्वरो निहीनोपाधिसम्पन्नाञ्जीवान् प्रशास्तीति किञ्चिद्विप्रतिषिध्यते ॥ ४५ ॥

जीवस्य पुरुषसूक्तमन्त्रोक्तभगवदंशत्वे भगवद्गीतामुदाहरति सूत्रकारः -

अपि चेति ।

अत्यन्तभिन्नेशित्रीशितव्यभावप्रसिद्धेः ईशितव्यजीवस्य कथमीश्वरांशत्वमित्याशङ्क्य कल्पितभेदेनापीशितव्यत्वोपपत्तेः, अनन्यथासिद्धाभेदशास्त्रबलादंशत्वमित्याह -

यत्त्वित्यादिना ।

औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह -

निरतिशयेति ।

नितरां हीनः शरीराद्युपाधिः, आज्ञानिकोपाधितारतम्यादीशेशितव्यव्यवस्था, न वस्तुतः । तदुक्तं सुरेश्वराचार्यैः 'ईशेशितव्यसम्बन्धः प्रत्यगज्ञानहेतुजः । सम्यग्ज्ञाने तमोध्वस्तावीश्वराणामपीश्वरः ॥' इति ॥४५॥