ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अपि च स्मर्यते ॥ ४५ ॥
अत्राह — ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् — यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेन अङ्गिनो देवदत्तस्य दुःखित्वम् , तद्वत् । ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् । अतो वरं पूर्वावस्थः संसार एवास्तु — इति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यात् — इति । अत्रोच्यते —

उत्तरसूत्रमवतारयति -

अत्राहेति ।

ईश्वरः स्वांशदुःखैर्दुःखी, अंशित्वात् , देवदत्तवदित्यर्थः ।

ततः किम् , तत्राह -

ततश्चेति ।

ज्ञानात्सर्वांशदुःखसमष्टिप्राप्त्यपेक्षया संसारो वरं तत्र स्वदुःखमात्रानुभवादित्यर्थः ।