ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रकाशादिवन्नैवं परः ॥ ४६ ॥
यथा जीवः संसारदुःखमनुभवति, नैवं पर ईश्वरोऽनुभवतीति प्रतिजानीमहेजीवो हि अविद्यावेशवशात् देहाद्यात्मभावमिव गत्वा, तत्कृतेन दुःखेन दुःखी अहम् इति अविद्यया कृतं दुःखोपभोगम् अभिमन्यतेनैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वा अस्तिजीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानः, तु पारमार्थिकोऽस्तियथा स्वदेहगतदाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति, तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवतिअहमेव पुत्रः, अहमेव मित्रम् इत्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमानःततश्च निश्चितमेतदवगम्यतेमिथ्याभिमानभ्रमनिमित्त एव दुःखानुभव इतिव्यतिरेकदर्शनाच्च एवमवगम्यतेतथा हिपुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्सम्बन्धाभिमानिष्वितरेषु , पुत्रो मृतो मित्रं मृतमित्येवमाद्युद्घोषिते, येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दुःखमुत्पद्यते, अभिमानहीनानां परिव्राजकादीनाम्अतश्च लौकिकस्यापि पुंसः सम्यग्दर्शनार्थवत्त्वं दृष्टम् , किमुत विषयशून्यादात्मनोऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूपस्येतितस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गःप्रकाशादिवदिति निदर्शनोपन्यासःयथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसम्बन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानोऽपि परमार्थतस्तद्भावं प्रतिपद्यते, यथा आकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानोऽपि परमार्थतो गच्छति, यथा उदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमानेऽपि तद्वान्सूर्यः कम्पतेएवमविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्ये अंशे दुःखायमानेऽपि तद्वानीश्वरो दुःखायतेजीवस्यापि दुःखप्राप्तिरविद्यानिमित्तैवेत्युक्तम्तथा अविद्यानिमित्तजीवभावव्युदासेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः — ‘तत्त्वमसिइत्येवमादयःतस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः ॥ ४६ ॥

नैवम्पर इति प्रतिज्ञानं विभजते -

यथा जीव इति ।

देवदत्तदृष्टान्ते भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्त्वमुपाधिः, तदभावान्नेश्वरस्य दुःखित्वप्राप्तिः । उक्तं चैतदभेदेऽपि बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थेति भावः ।

दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति -

जीवस्यापीत्यादिना ।

भ्रान्तौ सत्यां दुःखमित्यन्वयमुक्त्वा भ्रान्त्यभावे दुःखाभावदर्शनाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह -

व्यतिरेकेति ।

इतरेष्वभिमानशून्येष्वित्यर्थः ।

जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्यसर्वज्ञेश्वरस्येत्याह -

अतश्चेति ।

एवमंशित्वे हेतोः सोपाधिकत्वमुक्त्वा यों 'शी स वस्तुतः स्वांशधर्मवानिती व्याप्तिं स्थलत्रये व्यभिचारयति -

प्रकाशादिवदिति ।

वस्तुतः स्वांशदुःखित्वसाध्यस्य देवदत्तदृष्टान्ते वैकल्यमप्याह -

जीवस्येति ।

कल्पितदुःखित्वसाध्यं तु भ्रान्त्याद्यभावादीश्वरे नास्तीत्युक्तम् ।

किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्तमागमबाधादित्याह -

तथा चेति ।

दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः ॥४६॥