ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ ४८ ॥
ऋतौ भार्यामुपेयात्इत्यनुज्ञा, ‘गुर्वङ्गनां नोपगच्छेत्इति परिहारःतथाअग्नीषोमीयं पशुं संज्ञपयेत्इत्यनुज्ञा, ‘ हिंस्यात्सर्वा भूतानिइति परिहारःएवं लोकेऽपि मित्रमुपसेवितव्यमित्यनुज्ञा, शत्रुः परिहर्तव्य इति परिहारःएवंप्रकारावनुज्ञापरिहारौ एकत्वेऽप्यात्मनः देहसम्बन्धात् स्याताम्देहैः सम्बन्धो देहसम्बन्धःकः पुनर्देहसम्बन्धः ? देहादिरयं सङ्घातोऽहमेवइत्यात्मनि विपरीतप्रत्ययोत्पत्तिःदृष्टा सा सर्वप्राणिनाम्अहं गच्छामि अहमागच्छामि, अहमन्धः अहमनन्धः, अहं मूढः अहममूढः इत्येवमात्मिका हि अस्याः सम्यग्दर्शनादन्यन्निवारकमस्तिप्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषुतदेवमविद्यानिमित्तदेहाद्युपाधिसम्बन्धकृताद्विशेषादैकात्म्याभ्युपगमेऽप्यनुज्ञापरिहाराववकल्पेतेसम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारानर्थक्यं प्राप्तम्, तस्य कृतार्थत्वान्नियोज्यत्वानुपपत्तेःहेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात्आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन् कथं नियुज्येत आत्मा आत्मन्येव नियोज्यः स्यात्शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत् , ; तत्संहतत्वाभिमानात्सत्यं व्यतिरेकदर्शिनो नियोज्यत्वम्तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एव आत्मनो नियोज्यत्वाभिमानः हि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः, किमुतैकात्म्यदर्शिनः नियोगाभावात् सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्गः, सर्वत्राभिमानस्यैव प्रवर्तकत्वात् , अभिमानाभावाच्च सम्यग्दर्शिनःतस्माद्देहसम्बन्धादेवानुज्ञापरिहारौज्योतिरादिवत्यथा ज्योतिष एकत्वेऽप्यग्निः क्रव्यात्परिह्रियते, नेतरःयथा प्रकाश एकस्यापि सवितुरमेध्यदेशसम्बद्धः परिह्रियते, नेतरः शुचिभूमिष्ठःयथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते, भौमा अपि सन्तो नरकलेबरादयः परिह्रियन्तेयथा मूत्रपुरीषं गवां पवित्रतया परिगृह्यते, तदेव जात्यन्तरे परिवर्ज्यतेतद्वत् ॥ ४८ ॥

ननु भ्रान्तेः कुतश्चिन्निवृत्तौ व्यवहारविच्छेदः स्यादित्यत आह -

न ह्यस्या इत्यादिना ।

प्रतता सन्तता, विशेषो भेदः ।

अनियोज्यत्वाद्ब्रह्मविदः शास्त्रानर्थक्यमिष्टमित्याह -

न तस्येति ।

नियोगविषयद्वैताभावादात्मन्यसाध्ये नियोगानुपपत्तेर्न ब्रह्मविन्नियोज्य इत्यर्थः ।

नन्वामुष्मिकफलहेतुके कर्मणि देहभिन्नात्मविवेकिन एवाधिकारो वाच्यः । तथा च ब्रह्मविन्नियोज्यः, विवेकित्वात् , कर्माधिकारिवदिति शङ्कते -

शरीरव्यतिरेकेति ।

परोक्षविवेकस्यापरोक्षभ्रमाविरोधित्वात्कर्मिणो देहाभेदभ्रमोऽस्ति, तथा च भ्रम उपाधिरिति परिहरति -

नेत्यादिना ।

यथा व्योम देहाद्भिन्नं तद्वदहमित्यपश्यतः भ्रान्तस्येत्यर्थः ।

ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात् , सुषुप्तवदित्याह -

न हीति ।

देहादिष्वसंहतत्वदर्शिनः संहतत्वदर्शनशून्यस्य भेदभ्रान्तिरहितस्य सुषुप्तस्येति यावत् । अज्ञस्यापि भ्रान्त्यभावकाले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः ।

अनियोज्यत्वे बाधकमाशङ्क्य परिहरति -

न चेति ।

विषयवैराग्यस्य ज्ञानार्थमभ्यस्तस्य ज्ञानानन्तरमनुवृत्त्या विषयेषु प्रवर्तकरागनिवृत्तेर्नातिप्रसङ्ग इत्यर्थः । तदुक्तं भगवता 'रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति ।

एवमनुज्ञादिप्रसङ्गेनानियोज्यम् , विदुष उक्त्वा प्रकृतिमुपसंहरति -

तस्मादिति ।

एकस्याप्युपाधिभेदादनुज्ञापरिहारयोर्दृष्टान्तमाह -

ज्योतिरिति ।

क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशानाग्निरित्यर्थः ॥४८॥