ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
असन्ततेश्चाव्यतिकरः ॥ ४९ ॥
स्यातां नाम अनुज्ञापरिहारावेकस्याप्यात्मनो देहविशेषयोगात्यस्त्वयं कर्मफलसम्बन्धः, ऐकात्म्याभ्युपगमे व्यतिकीर्येत, स्वाम्येकत्वादिति चेत् , नैतदेवम् , असन्ततेः हि कर्तुर्भोक्तुश्चात्मनः सन्ततः सर्वैः शरीरैः सम्बन्धोऽस्तिउपाधितन्त्रो हि जीव इत्युक्तम्उपाध्यसन्तानाच्च नास्ति जीवसन्तानःततश्च कर्मव्यतिकरः फलव्यतिकरो वा भविष्यति ॥ ४९ ॥

शङ्कोत्तरत्वेन सूत्रं व्याचष्टे -

स्यातामित्यादिना ।

यद्यपि स्थूलदेहसम्बन्धादुपादानपरित्यागौ स्यातां तथाप्यन्यकृतकर्मफलमितरेणापि भुज्येतेति कर्मफलव्यतिकरः साङ्कर्यं स्याद्देहविशिष्टस्य स्वर्गादिभोगायोगेनाविशिष्टात्मन एकस्यैव भोक्तृत्वात् । तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः । भवेत्तदा साङ्कर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् । न त्वेतदस्ति । 'तद्गुणसारत्वात्' इत्यत्र मोक्षस्यापि, बुद्ध्युपहितस्यैव कर्तृत्वादिस्थापनात् , तथा च बुद्धेः परदेहासम्बन्धात्तदुपहितजीवस्य नास्ति परदेहसम्बन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मादिसाङ्कर्यमिति समाधानार्थः ॥४९॥