ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥
अथोच्येतविभुत्वेऽप्यात्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एव आत्मप्रदेशे भविष्यति; अतः प्रदेशकृता व्यवस्था अभिसन्ध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीतितदपि नोपपद्यतेकस्मात् ? अन्तर्भावात्विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्तितत्र वैशेषिकैः शरीरावच्छिन्नोऽप्यात्मनः प्रदेशः कल्पयितुं शक्यःकल्प्यमानोऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव पारमार्थिकं कार्यं नियन्तुं शक्नोतिशरीरमपि सर्वात्मसन्निधावुत्पद्यमानम्अस्यैव आत्मनः, नेतरेषाम्इति नियन्तुं शक्यम्प्रदेशविशेषाभ्युपगमेऽपि द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् , समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य सम्भवात्तथा हिदेवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत् , तस्मात्प्रदेशादपक्रान्ते तच्छरीरे, यज्ञदत्तशरीरे तं प्रदेशमनुप्राप्ते, तस्यापि इतरेण समानः सुखदुःखानुभवो दृश्यते स्यात् , यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमदृष्टं स्यात्स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् , ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्यसर्वगतत्वानुपपत्तिश्च बहूनामात्मनाम् , दृष्टान्ताभावात्वद तावत् त्वम्के बहवः समानप्रदेशाश्चेतिरूपादय इति चेत् , ; तेषामपि धर्म्यंशेनाभेदात् , लक्षणभेदाच्च तु बहूनामात्मनां लक्षणभेदोऽस्तिअन्त्यविशेषवशाद्भेदोपपत्तिरिति चेत् , ; भेदकल्पनाया अन्त्यविशेषकल्पनायाश्च इतरेतराश्रयत्वात्आकाशादीनामपि विभुत्वं ब्रह्मवादिनोऽसिद्धम् , कार्यत्वाभ्युपगमात्तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम्

किं मनसा संयुक्तात्मैवात्मनः प्रदेशः । उत कल्पितः । आद्ये सर्वात्मनां सर्वदेहेषु अन्तर्भावादव्यवस्था । द्वितीयं दूषयति -

तत्र न वैशेषिकैरिति ।

सर्वात्मसान्निध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः । नियामकभावादित्यर्थः ।

प्रदेशकल्पनामङ्गीकृत्याप्याह -

कल्प्येति ।

कार्यमभिसन्ध्यादिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यवस्थामाशङ्क्याह -

शरीरमपीति ।

प्रदेशपक्षे दोषान्तरमाह -

प्रदेशेति ।

यस्मिन्नात्मप्रदेशेऽदृष्टोत्पत्तिः स किं चलः स्थितो वा । नाद्यः, अचलें 'शिन्यंशस्य चलनविभागयोरसम्भवादण्वात्मवादापाताच्च । द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोगदर्शनाददृष्टमस्तीत्येकेनापि शरीरेण द्वयोरात्मनोर्भोगप्रसङ्गः । यद्यात्मभेदात्प्रदेशयोर्भेदस्तदापि तयोरेकदेहान्तर्भावाद्भोगसाङ्कर्यं तदवस्थं सावयवात्मवादप्रपङ्गश्च । किञ्च यत्तु यत्रात्मनः प्रदेशे शरीरादिसंयोगाददृष्टमुत्पन्नं तत्तत्रैवाचलप्रदेशे स्थितमिति स्वर्गादिशरीरावच्छिन्नात्मन्यदृष्टाभावाद्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः । यत्त्वत्रोत्पन्नमदृष्टं स्वाश्रये यत्र क्वचिद्भोगहेतुरिति स्वर्गादिभोगसिद्धिरिति । तन्न । भोगशरीराद्दूरस्थादृष्टे मानाभावादिति भावः । यदपि केचिदाहुः - मनस एकत्वेऽप्यात्मनां भेदेन संयोगव्यक्तीनां भेदात्कयाचित्संयोगव्यक्त्या कस्मिंश्चेदेवात्मन्यदृष्टादिकमित्यसाङ्कर्यमिति । तन्न । संयोगव्यक्तीनां वैजात्याभावेन सर्वासामेवैकदेहान्तःस्थसर्वात्मस्वदृष्टहेतुत्वापत्तेः । तथा च सर्वात्मनामेकस्मिन् देहे भोक्तृत्वं दुर्वारम् । किञ्च बहूनां विभुत्वमङ्गीकृत्य साङ्कर्यमुक्तम् , सम्प्रति कर्तृणां विभुत्वमसिद्धमहमिहैवास्मि इत्यल्पत्वानुभवान्मानाभावाच्चेत्याह -

सर्वगतत्वानुपपत्तिश्चेति ।

किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यम् , तच्चायुक्तमदृष्टत्वादित्याह -

वदेति ।

ननु रूपरसादीनामेकघटस्थत्वं दृष्टमिति चेत् , नायमस्मत्सम्मतो दृष्टान्तः । रूपस्य तेजोमात्रत्वाद्रसस्य जलमात्रत्वाद्गन्धस्य पृथिवीमात्रत्वादित्येवं तत्तद्गुणस्य स्वस्वधर्म्यंशेनाभेदात्तेजआदिधर्म्यतिरिक्तघटाभावात् । किञ्चात्मनां बहुत्वमप्यसिद्धम् , आत्मत्वरूपलक्षणस्याभेदात् , तथा च देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात् , यज्ञदत्तात्मवत् ।

अत्र वैशेषिकः शङ्कते -

अन्त्यविशेषेति ।

नित्यद्रव्यमात्रवृत्तयो विशेषास्ते च स्वयं स्वाश्रयव्यावर्तका एव न स्वेषां व्यावर्तकमपेक्षन्त इत्यन्त्या उच्यन्ते । तथा च विशेषरूपलक्षणभेदाद्भवत्यात्मभेद इत्यर्थः । न तावदात्मन्यनात्मनः सकाशाद्भेदज्ञानार्था विशेषकल्पना, आत्मत्वादेवानात्मभेदसिद्धेः । नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्मभेदस्याद्याप्यसिद्धेः । न च विशेषभेदकल्पनादेवात्मभेदकल्पना युक्ता, आत्मभेदज्ञप्तावात्मसु विशेषभेदसिद्धिस्तत्सिद्धौ तज्ज्ञप्तिरित्यन्योन्याश्रयादिति परिहारार्थः ।

यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सोऽप्यसम्मत इत्याह -

आकाशादीनामिति ।

विभुत्वस्यैकवृत्तित्वे लाघवान्न विभुभेदः ।

यथैकस्मिन्नाकाशे भेरीवीणादिभेदेन तारमन्द्रादिशब्दव्यवस्था एवमेकस्मिन्नप्यात्मनि बुद्ध्युपाधिभेदेन सुखादिव्यवस्थोपपत्तेरात्मभेदेऽपि व्यवस्थानुपपत्तेरुक्तत्वान्मुधा भेदकल्पनेत्युपसंहरति -

तस्मादिति ।

एवं भूतभोक्तृश्रुतीनां विरोधाभावाद्ब्रह्मण्यद्वये समन्वय इति सिद्धम् ॥५३॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य तृतीयः पादः ॥३॥