ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
तत्प्राक्श्रुतेश्च ॥ ३ ॥
इतश्च आकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिःयत्जायतेइत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सत् उत्तरेष्वप्याकाशादिष्वनुवर्तते एतस्माज्जायते प्राणः’ (मु. उ. २ । १ । ३) इत्यत्र आकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितम्तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति हि एकस्मिन्प्रकरणे एकस्मिंश्च वाक्ये एकः शब्दः सकृदुच्चरितो बहुभिः सम्बध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् , वैरूप्यप्रसङ्गात्तथा प्राणमसृजत प्राणाच्छ्रद्धाम्’ (प्र. उ. ६ । ४) इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यतेयत्रापि पश्चाच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः सम्बध्यते, तत्राप्येष एव न्यायःयथासर्वाणि भूतानि व्युच्चरन्तिइत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः सम्बध्यते ॥ ३ ॥

तस्य जायत इति पदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतेर्मुख्यं जन्मेति सूत्रयोजना -

तत्सामान्यादिति ।

तेनाकाशादिजन्मना सामान्यमेकशब्दोक्तत्वं तस्मादित्यर्थः ।

एकस्मिन्वाक्ये एकस्य शब्दस्य क्वचिन्मुख्यत्वं क्वचिद्गौणत्वमिति वैरूप्यं न युक्तमिति न्यायमन्यत्राप्यतिदिशति -

यत्रापि पश्चाच्छ्रुत इति ॥३॥