ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥
उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः । संख्याविषय इदानीं परिह्रियते । तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति । सम्प्रति तु कति इतरे प्राणा इति सम्प्रधारयति । श्रुतिविप्रतिपत्तेश्चात्र विशयः — क्वचित्सप्त प्राणाः सङ्कीर्त्यन्ते — ‘सप्त प्राणाः प्रभवन्ति तस्मात्’ (मु. उ. २ । १ । ८) इति; क्वचिदष्टौ प्राणा ग्रहत्वेन गुणेन सङ्कीर्त्यन्ते — ‘अष्टो ग्रहा अष्टावतिग्रहाः’ (बृ. उ. ३ । २ । १) इति; क्वचिन्नव — ‘सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ’ (तै. सं. ५ । १ । ७ । १) इति; क्वचिद्दश — ‘नव वै पुरुषे प्राणा नाभिर्दशमी’ इति; क्वचिदेकादश — ‘दशेमे पुरुषे प्राणा आत्मैकादशः’ (बृ. उ. ३ । ९ । ४) इति; क्वचिद्द्वादश — ‘सर्वेषाꣳ स्पर्शानां त्वगेकायनम्’ (बृ. उ. २ । ४ । ११) इत्यत्र; क्वचित्त्रयोदश — ‘चक्षुश्च द्रष्टव्यं च’ (प्र. उ. ४ । ८) इत्यत्र — एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः । किं तावत्प्राप्तम् ? सप्तैव प्राणा इति । कुतः ? गतेः; यतस्तावन्तोऽवगम्यन्ते ‘सप्त प्राणाः प्रभवन्ति तस्मात्’ (मु. उ. २ । १ । ८) इत्येवंविधासु श्रुतिषु, विशेषिताश्चैते ‘सप्त वै शीर्षण्याः प्राणाः’ इत्यत्र । ननु ‘प्राणा गुहाशया निहिताः सप्त सप्त’ इति वीप्सा श्रूयते; सा सप्तभ्योऽतिरिक्तान्प्राणान्गमयतीति — नैष दोषः । पुरुषभेदाभिप्रायेयं वीप्सा — प्रतिपुरुषं सप्त सप्त प्राणा इति; न तत्त्वभेदाभिप्राया — सप्त सप्त अन्येऽन्ये प्राणा इति । नन्वष्टत्वादिकापि संख्या प्राणेषु उदाहृता; कथं सप्तैव स्युः ? सत्यमुदाहृता; विरोधात्त्वन्यतमा संख्या अध्यवसातव्या । तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम् । वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति मन्यते ॥ ५ ॥

एवं जन्मलब्धसत्ताकानां प्राणानामुपजीव्योपजीवकत्वसङ्गत्या सङ्ख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति -

सप्तगतेर्विशेषितत्वाच्च ।

विशयः संशयः । इन्द्रियाण्यत्र विषयः । पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ । ग्रहत्वं बन्धकत्वम् । गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विषयाधीनमित्यतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः । द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञानकर्मेन्द्रियाणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धान्तकोटिरुक्ता । एत एव हृदयाख्यया बुद्ध्या सहद्वादश । अहङ्कारेण सह त्रयोदश । श्रुतितः सप्तत्वावगतेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्षण्योद्देशेन प्राणत्वविशेषणाद्वा शीर्षण्यानां प्राणत्वशब्दिता, इन्द्रियत्वपरिसङ्ख्यया सप्तैव प्राणा इति सूत्रयोजना ।

सप्तत्वं वीप्साविरुद्धमिति शङ्कते -

नन्विति ।

गुहायां हृदये शेरत इति गुहाशयाः । स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः । चित्तेन चतुर्दशत्वं मन्तव्यम् ।

पूर्वपक्षी परिहरति -

नैष दोष इति ॥५॥