हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः श्रूयन्ते — ‘हस्तौ वै ग्रहः स कर्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति’ (बृ. उ. ३ । २ । ८) इत्येवमाद्यासु श्रुतिषु । स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते सम्भावयितुम् । हीनाधिकसंख्याविप्रतिपत्तौ हि अधिका संख्या सङ्ग्राह्या भवति । तस्यां हीना अन्तर्भवति, न तु हीनायामधिका । अतश्च नैवं मन्तव्यम् — स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति । उत्तरसंख्यानुरोधात्तु एकादशैव ते प्राणाः स्युः । तथा च उदाहृता श्रुतिः — ‘दशेमे पुरुषे प्राणा आत्मैकादशः’ (बृ. उ. ३ । ९ । ४) इति; आत्मशब्देन च अत्र अन्तःकरणं परिगृह्यते, करणाधिकारात् । नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृते — सत्यमुदाहृते । न त्वेकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति, यदर्थमधिकं करणं कल्प्येत । शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदाः, तदर्थानि पञ्च बुद्धीन्द्रियाणि । वचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदाः, तदर्थानि च पञ्च कर्मेन्द्रियाणि । सर्वार्थविषयं त्रैकाल्यवृत्ति मनस्तु एकम् अनेकवृत्तिकम् । तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते — ‘मनो बुद्धिरहंकारश्चित्तं च’ इति । तथा च श्रुतिः कामाद्या नानाविधा वृत्तीरनुक्रम्याह — ‘एतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इति । अपि च सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युः । स्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते — ‘द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्’ इति । न च तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुम् , हस्तादिवृत्तीनामत्यन्तविजातीयत्वात् । तथा ‘नव वै पुरुषे प्राणा नाभिर्दशमी’ इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते, न प्राणतत्त्वभेदाभिप्रायेण, ‘नाभिर्दशमी’ इति वचनात् । न हि नाभिर्नाम कश्चित्प्राणः प्रसिद्धोऽस्ति । मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमिति — अतो ‘नाभिर्दशमी’ इत्युच्यते । क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते, क्वचित्प्रदर्शनार्थम् । तदेवं विचित्रे प्राणेयत्ताम्नाने सति, क्व किंपरम् आम्नानमिति विवेक्तव्यम् । कार्यजातवशात्त्वेकादशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम् ॥