ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अणवश्च ॥ ७ ॥
अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोतिअणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याःअणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ, परमाणुतुल्यत्वम् , कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात्सूक्ष्मा एते प्राणाः, स्थूलाश्चेत्स्युःमरणकाले शरीरान्निर्गच्छन्तः, बिलादहिरिव, उपलभ्येरन् म्रियमाणस्य पार्श्वस्थैःपरिच्छिन्नाश्चैते प्राणाः, सर्वगताश्चेत्स्युःउत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात् , तद्गुणसारत्वं जीवस्य सिध्येत्सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् , , वृत्तिमात्रस्य करणत्वोपपत्तेःयदेव हि उपलब्धिसाधनम्वृत्तिः अन्यद्वातस्यैव नः करणत्वम् , संज्ञामात्रे विवादः इति करणानां व्यापित्वकल्पना निरर्थिकातस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः ॥ ७ ॥

अणवश्च ।

'प्राणाः सर्वेऽनन्ताः' इति श्रुतेरिन्द्रियाणां विभुत्वात्तेषामुत्क्रान्तिरसिद्धा किन्तु तत्तद्देहे तेषामभिव्यक्तिरूपाः प्रादेशिक्यो वृत्तयः सन्ति न तासामुत्क्रान्त्यादिरिति साङ्ख्यानामाक्षेपः, तत्सङ्गत्या प्राणाः किम्परिमाणा इति सन्देहे सिद्धान्तयति -

अधुनेत्यादिना ।

उत्पत्तिसङ्ख्यानिर्णयानन्तरं परिमाणं निरूप्यत इत्यर्थः । अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् । परिच्छेदोऽल्पत्वम् ।

बुद्ध्यादीनां विभुत्वे तदुपाधिकमात्मनोऽणुत्वादिकं न सिद्ध्येदित्युक्तन्यायविरोधमाह -

तद्गुणसारत्वमिति ।

उक्ताक्षेपमनूद्य निरस्यति -

सर्वगतानामिति ।

आनन्त्यश्रुतेरुपासनार्थत्वान्नोत्क्रान्त्यादिश्रुतीनां तया विरोध इति सिद्धम् ॥७॥