ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
अत्रोच्यते वायुः प्राणः, नापि करणव्यापारःकुतः ? पृथगुपदेशात्वायोस्तावत् प्राणस्य पृथगुपदेशो भवतिप्राण एव ब्रह्मणश्चतुर्थः पादः वायुना ज्योतिषा भाति तपति ’ (छा. उ. ३ । १८ । ४) इति हि वायुरेव सन् वायोः पृथगुपदिश्येततथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् , वृत्तिवृत्तिमतोश्चाभेदात् हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येततथा एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुः’ (मु. उ. २ । १ । ३) इत्येवमादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः समस्तानां करणानामेका वृत्तिः सम्भवति, प्रत्येकमेकैकवृत्तित्वात् , समुदायस्य अकारकत्वात्ननु पञ्जरचालनन्यायेन एतद्भविष्यतियथा एकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूय एकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः सम्भूय एकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इतिनेत्युच्यतेयुक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः सम्भूय एकं पञ्जरं चालयेयुरिति, तथा दृष्टत्वात्इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राणा सम्भूय प्राण्युरिति युक्तम् , प्रमाणाभावात् , अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्यतथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणम् , गुणभावोपगमश्च तं प्रति वागादीनाम् , करणवृत्तिमात्रे प्राणेऽवकल्पतेतस्मादन्यो वायुक्रियाभ्यां प्राणःकथं तर्हीयं श्रुतिः — ‘यः प्राणः वायुःइति ? उच्यतेवायुरेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते, तत्त्वान्तरम् , नापि वायुमात्रम्अतश्चोभे अपि भेदाभेदश्रुती विरुध्येते ॥ ९ ॥

सिद्धान्तत्वेन सूत्रमादत्ते -

अत्रोच्यत इति ।

मनोरूपब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैश्चतुष्पात्त्वं श्रुतावुक्तम् , तत्र प्राणो वायुनाधिदैविकेन भात्यभिव्यञ्ज्यते अभिव्यक्तः संस्तपति । कार्यक्षमो भवतीत्यर्थः ।

श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथगुत्पत्तिलिङ्गेन चेन्द्रियतदभिन्नव्यापारेभ्योऽपि भिन्नत्वमित्याह -

तथेति ।

प्राणस्येन्द्रियवृत्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति -

न च समस्तानामिति ।

या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रादिसाध्या, करणानां प्रत्येकमेकैकरूपग्रहादिवृत्तावैव हेतुत्वात् । न च समुदायस्य वृत्तिः सम्भवति तस्यासत्त्वादित्यर्थः ।

प्राणाभावादिति ।

श्रोत्रादीनामेकप्राणनाख्यवृत्त्यनुकूलपरिस्पन्देषु मानाभावात् , श्रवणादीनामपरिस्पन्दत्वेन विजातीयानाम् , परिस्पन्दरूपप्राणनाननुकूलत्वादवान्तरव्यापाराभावान्न समस्तकरणवृत्तिः प्राण इत्यर्थः ।

किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यम् , नैतदस्तीत्याह -

तथा प्राणस्येति ।

यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात् , तथा वायोर्विकारः प्राण इत्यभेदश्रुतेर्गतिमाह -

उच्यत इति ।

देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः ॥९॥