प्राणो न भोक्ता, भोगोपकरणत्वात् , चक्षुरादिवदिति सूत्रार्थमाह -
तुशब्द इत्यादिना ।
यथा बृहद्रथन्तरयोः सर्वत्र सहप्रयुज्यमानत्वेन सामत्वेन वा साम्यात्सहपाठस्तथा करणैः सहोपकरणत्वेन साम्यात्प्राणस्य पाठ इति न हेत्वसिद्धिरित्यर्थः । किञ्च प्राणो न भोक्ता, सावयवत्वात् , जडत्वाद्भौतिकत्वाच्च, देहवत् ॥१०॥