ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥
तुशब्दः प्राणस्य जीववत् स्वातन्त्र्यं व्यावर्तयतियथा चक्षुरादीनि, राजप्रकृतिवत् , जीवस्य कर्तृत्वं भोक्तृत्वं प्रति उपकरणानि, स्वतन्त्राणि; तथा मुख्योऽपि प्राणः, राजमन्त्रिवत् , जीवस्य सर्वार्थकरत्वेन उपकरणभूतः, स्वतन्त्रःकुतः ? तत्सहशिष्ट्यादिभ्यः; तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु; समानधर्मणां सह शासनं युक्तं बृहद्रथंतरादिवत्आदिशब्देन संहतत्वाचेतनत्वादीन् प्राणस्य स्वातन्त्र्यनिराकरणहेतून् दर्शयति ॥ १० ॥

प्राणो न भोक्ता, भोगोपकरणत्वात् , चक्षुरादिवदिति सूत्रार्थमाह -

तुशब्द इत्यादिना ।

यथा बृहद्रथन्तरयोः सर्वत्र सहप्रयुज्यमानत्वेन सामत्वेन वा साम्यात्सहपाठस्तथा करणैः सहोपकरणत्वेन साम्यात्प्राणस्य पाठ इति न हेत्वसिद्धिरित्यर्थः । किञ्च प्राणो न भोक्ता, सावयवत्वात् , जडत्वाद्भौतिकत्वाच्च, देहवत् ॥१०॥