ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥
तावद्विषयान्तरप्रसङ्गो दोषः, अकरणत्वात्प्राणस्य हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते अस्य एतावता कार्याभाव एवकस्मात् ? तथा हि श्रुतिः प्राणान्तरेष्वसम्भाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषुअथ प्राणा अहꣳ श्रेयसि व्यूदिरे’ (छा. उ. ५ । १ । ६) इत्युपक्रम्य, यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत वः श्रेष्ठः’ (छा. उ. ५ । १ । ७) इति उपन्यस्य, प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा, प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति; ‘तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामिइति एतमेवार्थं श्रुतिराहप्राणेन रक्षन्नवरं कुलायम्’ (बृ. उ. ४ । ३ । १२) इति सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति; यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति’ (बृ. उ. १ । ३ । १९), इतितेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवतिइति प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति; ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति प्राणमसृजतइति प्राणनिमित्ते जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति ॥ ११ ॥

उक्तव्याप्तेः शरीरे व्यभिचाराद्देहेन्द्रियधारणोत्क्रान्त्याद्यसाधारणकार्यसत्वाच्च निर्विषयस्यापि प्राणस्य शरीरवद्भोगोपकरणत्वमक्षतं न तु चक्षुरादिवज्ज्ञानकर्मकरणत्वमस्ति येन सविषयत्वं स्यादिति परिहरति -

न तावदित्यादिना ।

अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तम् । व्यूदिरे विवादं चक्रिरे ।

तद्वृत्तिमात्रहीनमिति ।

मूकादिभावेन स्थितमित्यर्थः । अवरं नीचम् , कुलायं देहाख्यं गृहम् , प्राणेन रक्षञ्जीवः स्वपितीत्यर्थः । तदैव तदानीमेव । तेन प्राणेन यदश्नाति जीवस्तेन प्राणकृताशनेनेति यावत् । एवं श्रुतेः प्राणस्यासाधारणं कार्यमस्तीत्युक्तम् ॥११॥