एवं मुख्यप्राणस्योत्पत्तिं स्वरूपं चोक्त्वा परिमाणसन्देहेऽणुत्वमुपदिशति -
अणुश्चेति ।
अधिकाशङ्कामाह -
ननु विभुत्वमपीति ।
प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते । नागो हस्ती ।
प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाति, समोऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्यात्मिकप्राणस्याल्पत्वमाधिदैविकस्य विभुत्वमिति विषयभेदाच्छ्रुत्योरविरोध इति समाधत्ते -
तदुच्यत इति ।
किञ्चोपक्रमे प्राणस्य प्लुष्यादिसमत्वेनाल्पत्वोक्तेः सम एभिस्त्रिभिर्लोकैरिति विराड्देहसाम्यम् ।
समोऽनेनेति सूत्रात्मत्वमिति विषयव्यवस्था सुस्थेत्याह -
अपि चेति ।
अणवश्चेत्यत्र सर्वेऽनन्ता इति इन्द्रियानन्त्यमुपासनार्थमिति समाहितम् , अत्र तु प्राणविभुत्वमाधिदैविकमिति समाधानान्तरोक्तेरपौनरुक्त्यम् । अन्ये तु प्रसङ्गात्तत्र साङ्ख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्यपौनरुक्त्यमाहुः ॥१३॥