ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥
मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ताः; तत्रेदमपरं सन्दिह्यते — किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणाः, आहोस्वित् तत्त्वान्तराणीति । किं तावत्प्राप्तम् ? मुख्यस्यैवेतरे वृत्तिभेदा इति । कुतः ? श्रुतेः; तथा हि श्रुतिः मुख्यमितरांश्च प्राणान्संनिधाप्य, मुख्यात्मतामितरेषां ख्यापयति — ‘हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्’ (बृ. उ. १ । ५ । २१) इति । प्राणैकशब्दत्वाच्च एकत्वाध्यवसायः । इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत, एकत्र वा मुख्यत्वमितरत्र लाक्षणिकत्वमापद्येत । तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः, एवं वागाद्या अप्येकादशेति । एवं प्राप्ते, ब्रूमः — तत्त्वान्तराण्येव प्राणाद्वागादीनीति । कुतः ? व्यपदेशभेदात् । कोऽयं व्यपदेशभेदः ? ते प्रकृताः प्राणाः, श्रेष्ठं वर्जयित्वा अवशिष्टा एकादशेन्द्रियाणीत्युच्यन्ते, श्रुतावेवं व्यपदेशदर्शनात् — ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ (मु. उ. २ । १ । ३) इति ह्येवंजातीयकेषु प्रदेशेषु पृथक् प्राणो व्यपदिश्यते, पृथक्च इन्द्रियाणि । ननु मनसोऽप्येवं सति वर्जनम् इन्द्रियत्वेन, प्राणवत् , स्यात् — ‘मनः सर्वेन्द्रियाणि च’ इति पृथग्व्यपदेशदर्शनात् । सत्यमेतत् — स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपि इन्द्रियत्वेन श्रोत्रादिवत् सङ्गृह्यते । प्राणस्य तु इन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति । व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते । तत्त्वैकत्वे तु, स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न लभते च — इति विप्रतिषिद्धम् । तस्मात्तत्त्वान्तरभूता मुख्यादितरे ॥ १७ ॥

सत्स्विन्द्रियेषु तदधिष्ठातृदेवताचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण न सन्तीत्याक्षेपं प्रत्याह -

त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।

प्राणादिन्द्रियाणां भेदाभेदश्रुतिभ्यां संशयं वदन् पूर्वपक्षयति -

मुख्यश्चेत्यादिना ।

हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति सङ्कल्प्य ते वागादयस्तथाभवन्नित्यभेदश्रुत्यर्थः ।

ते प्राणादभिन्नाः, प्राणपदवाच्यत्वात् , प्राणवदित्याह -

प्राणेति ।

ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रतिज्ञार्थत्वेन पदत्रयं व्याचष्टे -

तत्त्वान्तराण्येवेति ।

तद्व्यपदेशादित्यत्र तच्चब्दः प्रतिज्ञातान्यत्वं परामृशति ।

प्राणा इन्द्रियाणीत्यपर्यायशब्दाभ्यामन्यत्वोक्तेरिति हेतूपपादनार्थत्वेन पुनस्तानि सूत्रपदानि योजयति -

क इत्यादिना ।

सूत्रस्य विश्वतोमुखत्वादुभयार्थत्वमलङ्कार एव न दूषणम् । एतेन प्रतिज्ञाध्याहारः तच्छब्दस्याप्रकृतभेदपरामर्शित्वं चेति दोषद्वयमपास्तम् ।

शब्दभेदाद्वस्तुभेदसाधनेऽतिप्रसङ्गं शङ्कते -

नन्विति ।

प्राणवन्मनसोऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः ।

अपर्यायसंज्ञाभेदात्स्वतन्त्रसंज्ञिवस्तुभेद इत्युत्सर्गः । स च 'मनः षष्ठानीन्द्रियाणि' इत्यादिस्मृतिबाधान्मनस्यपोद्यते, प्राणे तु बाधकाभावादुत्सर्गसिद्धिरिति समाधत्ते -

सत्यमित्यादिना ।

मन इन्द्रियाणि चेति भेदोक्तिर्गोबलीवर्दन्यायेन नेया । सिद्धान्ते मनसः प्रमोपादानत्वादात्मवदनिन्द्रियत्वमिष्टं ततो नोत्सर्गबाध इति केचित् ।

किञ्च 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति पृथग्जन्मव्यपदेशात्स्वतन्त्रवस्तुभेद इत्याह -

व्यपदेशभेदश्चायमिति ।

एकस्मिन् वाक्ये प्राण इन्द्रियशब्दमैक्याल्लभते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः ॥१७॥