विरुद्धधर्मवत्त्वाच्च भेद इत्याह -
वैलक्षण्याच्चेति ।
मृत्युरासङ्गदोषः । वाग्दध्रे व्रतं धृतवतीत्यर्थः । बहुभिर्भेदलिङ्गैर्विरोधाद्वागादीनां प्राणरूपभवनं प्राणाधीनस्थितिकत्वरूपं व्याख्येयम् । एतदेव प्राणशब्दस्येन्द्रियेषु लक्षणाबीजं श्रुतौ 'तस्मादेत एतेनाख्यायन्त' इति परामृष्टम् , इति न भेदाभेदश्रुत्योर्विरोध इति सिद्धम् ॥१९॥