ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
वैलक्षण्याच्च ॥ १९ ॥
वैलक्षण्यं च भवति, मुख्यस्य इतरेषां च — सुप्तेषु वागादिषु मुख्य एको जागर्ति । स एव च एको मृत्युना अनाप्तः, आप्तास्त्वितरे, तस्यैव च स्थित्युत्क्रान्तिभ्यां देहधारणपतनहेतुत्वम् , न इन्द्रियाणाम् । विषयालोचनहेतुत्वं च इन्द्रियाणाम् , न प्राणस्य — इत्येवंजातीयको भूयाँल्लक्षणभेदः प्राणेन्द्रियाणाम् । तस्मादप्येषां तत्त्वान्तरभावसिद्धिः । यदुक्तम् — ‘त एतस्यैव सर्वे रूपमभवन्’ (बृ. उ. १ । ५ । २१) इति श्रुतेः प्राण एवेन्द्रियाणीति, तदयुक्तम् , तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः । तथा हि — ‘वदिष्याम्येवाहमिति वाग्दध्रे’ (बृ. उ. १ । ५ । २१) इति वागादीनीन्द्रियाण्यनुक्रम्य, ‘तानि मृत्युः श्रमो भूत्वोपयेमे ... तस्माच्छ्राम्यत्येव वाक्’ इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय, ‘अथेममेव नाप्नोद्योऽयं मध्यमः प्राणः’ (बृ. उ. १ । ५ । २१) इति पृथक् प्राणं मृत्युना अनभिभूतं तमनुक्रामति । ‘अयं वै नः श्रेष्ठः’ (बृ. उ. १ । ५ । २१) इति च श्रेष्ठतामस्यावधारयति, तस्मात् तदविरोधेन, वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वम् तद्रूपभवनं वागादीनाम् — इति मन्तव्यम् , न तु तादात्म्यम् । अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः । तथा च श्रुतिः — ‘त एतस्यैव सर्वे रूपमभवꣳस्तस्मादेत एतेनाख्यायन्ते प्राणाः’ (बृ. उ. १ । ५ । २१) इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति । तस्मात्तत्त्वान्तराणि प्राणात् वागादीनि इन्द्रियाणीति ॥ १९ ॥

विरुद्धधर्मवत्त्वाच्च भेद इत्याह -

वैलक्षण्याच्चेति ।

मृत्युरासङ्गदोषः । वाग्दध्रे व्रतं धृतवतीत्यर्थः । बहुभिर्भेदलिङ्गैर्विरोधाद्वागादीनां प्राणरूपभवनं प्राणाधीनस्थितिकत्वरूपं व्याख्येयम् । एतदेव प्राणशब्दस्येन्द्रियेषु लक्षणाबीजं श्रुतौ 'तस्मादेत एतेनाख्यायन्त' इति परामृष्टम् , इति न भेदाभेदश्रुत्योर्विरोध इति सिद्धम् ॥१९॥