ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥
सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यतेसेयं देवतैक्षत न्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।’ (छा. उ. ६ । ३ । २) तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति’ (छा. उ. ६ । ३ । ३)तत्र संशयःकिं जीवकर्तृकमिदं नामरूपव्याकरणम् , आहोस्वित्परमेश्वरकर्तृकमितितत्र प्राप्तं तावत्जीवकर्तृकमेवेदं नामरूपव्याकरणमितिकुतः ? ‘अनेन जीवेनात्मनाइति विशेषणात्यथा लोकेचारेणाहं परसैन्यमनुप्रविश्य सङ्कलयानिइत्येवंजातीयके प्रयोगे, चारकर्तृकमेव सत् सैन्यसङ्कलनं हेतुकर्तृत्वात् राजा आत्मन्यध्यारोपयति सङ्कलयानीत्युत्तमपुरुषप्रयोगेण; एवं जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वात् देवता आत्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेणअपि डित्थडवित्थादिषु नामसु घटशरावादिषु रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम्तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते अभिधत्तेसंज्ञामूर्तिकॢप्तिस्त्वितितुशब्देन पक्षं व्यावर्तयतिसंज्ञामूर्तिकॢप्तिरितिनामरूपव्याक्रियेत्येतत्त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात्येयं संज्ञाकॢप्तिः मूर्तिकॢप्तिश्च, अग्निः आदित्यः चन्द्रमाः विद्युदिति, तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु , प्रत्याकृति प्रतिव्यक्ति अनेकप्रकारा, सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हतिकुतः ? उपदेशात्; तथा हि — ‘सेयं देवतैक्षतइत्युपक्रम्यव्याकरवाणिइत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यतेननुजीवेनइति विशेषणात् जीवकर्तृकत्वं व्याकरणस्याध्यवसितम्नैतदेवम्; ‘जीवेनइत्येतत्अनुप्रविश्यइत्यनेन सम्बध्यते, आनन्तर्यात्व्याकरवाणिइत्यनेनतेन हि सम्बन्धेव्याकरवाणिइत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेषु अनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्तियेष्वपि अस्ति सामर्थ्यम् , तेष्वपि परमेश्वरायत्तमेव तत् जीवो नाम परमेश्वरादत्यन्तभिन्नःचार इव राज्ञः, ‘आत्मनाइति विशेषणात् , उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्यतेन तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवतिपरमेश्वर एव नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः, आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) इत्यादिश्रुतिभ्यःतस्मात् परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपयोर्व्याकरणम्त्रिवृत्करणपूर्वकमेवेदम् इह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात्तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयतियदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ (छा. उ. ६ । ४ । १) इत्यादिनातत्राग्निरिति इदं रूपं व्याक्रियते, सति रूपव्याकरणे विषयप्रतिलम्भादग्निरिति इदं नाम व्याक्रियतेएवमेवादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम्अनेन अग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति, उपक्रमोपसंहारयोः साधारणत्वात्तथा हिअविशेषेणैव उपक्रमःइमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति’ (छा. उ. ६ । ३ । ४) इति, अविशेषेणैव उपसंहारःयदु रोहितमिवाभूदिति तेजसस्तद्रूपम्’ (छा. उ. ६ । ४ । ६) इत्येवमादिः, यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाꣳ समासः’ (छा. उ. ६ । ४ । ७) इत्येवमन्तः ॥ २० ॥

उत्पत्तिरुत्पादनेति च कार्यकर्त्रोर्व्यापारौ प्रसिद्धौ तत्र जगदुत्पत्तिश्रुतिविरोधः अतीतेन पादद्वयेन निरस्तः, सम्प्रत्युत्पादनश्रुतिविरोधो निरस्यते । तत्रापि सूक्ष्मभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नम् , स्थूलभूतोत्पादने त्वस्ति श्रुतिविप्रतिपत्तिरिति तन्निरासार्थमाह -

संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।

नामरूपभेदात्करणभिन्नः प्राण इत्युक्तम् , तत्प्रसङ्गेन स्थूलनामरूपकॢप्तिः किङ्कर्तृकेति चिन्त्यत इत्यवान्तरसङ्गतिः । प्रक्रिया प्रकरणम् ।

ईक्षणमेवाह -

हन्तेत्यादिना ।

हन्त इदानीं देवताः सूक्ष्मा अनुप्रविश्येति सम्बन्धः । तासां तिसृणां देवतानामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था । छान्दोग्येऽप्याकाशवाय्वोरुपसंहारस्योक्तत्वात् । एवं स्थूलीकृतेषु भूतेषु प्राणिनां व्यवहारः सेत्स्यतीति परदेवतायास्तात्पर्यम् ।

जीवेनेतिपदस्य व्याकरवाणीत्यनेन सम्बन्धसम्भवासम्भवाभ्यां संशयमाह -

तत्रेति ।

पूर्वपक्षे जीवस्यैव भौतिकस्रष्टृत्वाद्ब्रह्मणः सर्वस्रष्टृत्वासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।

जीवेनेत्यस्य व्याकरवाणीतिप्रधानक्रियापदेन सम्बन्ध इति पूर्वपक्षमाह -

तत्र प्राप्तमिति ।

परदेवताया अकर्तृत्वे कथमुत्तमपुरुषप्रयोग इत्याशङ्क्य प्रयोजकत्वात्कर्तृत्वोपचार इत्याह -

यथा लोक इति ।

सिद्धान्तयति -

तुशब्देनेत्यादिना ।

प्रत्याकृति ।

प्रतिजातीत्यर्थः । अनेन स्थूलसर्वसर्गे जीवस्यासामर्थ्यं द्योतितम् । तथा च पदान्वयस्य पदार्थयोग्यताधीनत्वाज्जीवरूपेण प्रविश्याहमेव व्याकरवाणीत्यन्वयः । न तु जीवेन व्याकरवाणीति ।

ननु तर्हि प्रवेशक्रिया जीवकर्तृका व्याकरणमीश्वरकर्तृकमिति कर्तृभेदात्क्त्वाप्रत्ययो न स्यादित्यत आह -

न च जीवो नामेति ।

वस्तुतस्तु सूर्यो जले प्रविष्ट इति प्रतिबिम्बभावाख्यप्रवेशे सूर्यस्यैव कर्तृत्वप्रयोगाज्जीवात्मना प्रवेशेऽपीश्वर एव कर्तेति क्त्वाश्रुतिर्युक्तेति बोध्यम् ।

नन्वभेदश्चेज्जीव एव व्याकर्ता किं न स्यादित्याशङ्क्य कल्पनया भिन्नस्य तस्याशक्तत्वाच्छ्रुतिविरोधाच्च मैवमित्याह -

परमेश्वर इति ।

प्रत्येकं महाभूतसर्गस्य प्रागुक्तत्वादिह व्याकरणवाक्ये यत्नपूर्वकं स्थूलभौतिकसर्ग उच्यत इति पाठव्यत्ययेन सूत्रसूचितं श्रुत्यर्थमाह -

त्रिवृत्करणपूर्वकमिति ।

ईश्वरकृतं त्र्यात्मत्वमिति क्व दृष्टमित्यत आह -

तच्चेति ।

इदानीं नामरूपव्याकरणे क्रममाह -

तत्राग्निरिति ।

यद्यपि 'अतः प्रभवात्' इत्यत्र वेदशब्दपूर्विकार्थसृष्टिरुक्ता तथाप्यव्यक्तात्स्मृताच्छब्दादर्थसृष्टौ सत्यां स्फुटनामसम्बन्धाभिव्यक्तिरत्रोक्तेत्यविरोधः ।

नन्वग्न्यादीनां तैजसानामेव श्रुतावुदाहरणाद्भूजलयोस्त्र्यात्मकत्वं न विवक्षितमित्यत आह -

अनेन चेति ।

उपक्रमे तासां मध्य इति शेषः । यत्कपोतरूपादिकं कृष्णत्वादिविशेषाकारेण विज्ञातमिव भवति तद्देवतानां समुदायरूपमित्यर्थः ॥२०॥