मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
प्राणगतेश्च ॥ ३ ॥
प्राणानां
च
देहान्तरप्रतिपत्तौ
गतिः
श्राव्यते
—
‘
तमुत्क्रामन्तं
प्राणोऽनूत्क्रामति
प्राणमनूत्क्रामन्तꣳ
सर्वे
प्राणा
अनूत्क्रामन्ति
’ (बृ. उ. ४ । ४ । २)
इत्यादिश्रुतिभिः
।
सा
च
प्राणानां
गतिर्नाश्रयमन्तरेण
सम्भवतीत्यतः
प्राणगतिप्रयुक्ता
तदाश्रयभूतानामपामपि
भूतान्तरोपसृष्टानां
गतिरवगम्यते
।
न
हि
निराश्रयाः
प्राणाः
क्वचिद्गच्छन्ति
तिष्ठन्ति
वा
,
जीवतो
दर्शनात्
॥ ३ ॥
प्राणगतेश्चेति ॥३॥
;
उत्क्रान्तौ प्राणा देहबीजपञ्चभूताश्रयाः प्राणत्वाज्जीवद्देहस्थप्राणवदित्याह -
प्राणगतेश्चेति ॥३॥