ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
स्यादेतत् — कथं पुनः ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इत्येतत् निर्धारयितुं पार्यते, यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति ? इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चानामाहुतीनामाधारत्वेनाधीताः । तेषां च प्रमुखे ‘असौ वाव लोको गौतमाग्निः’ (छा. उ. ५ । ४ । १) इत्युपन्यस्य ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ (छा. उ. ५ । ४ । २) इति श्रद्धा होम्यद्रव्यत्वेन आवेदिता । न तत्र आपो होम्यद्रव्यतया श्रुताः । यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां होम्यद्रव्यता परिकल्प्येत, परिकल्प्यतां नाम, तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः । प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति साहसमेतत् । श्रद्धा च नाम प्रत्ययविशेषः, प्रसिद्धिसामर्थ्यात् । तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति चेत् — नैष दोषः; हि यतः तत्रापि प्रथमेऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते । कुतः ? उपपत्तेः । एवं ह्यादिमध्यावसानसंगानात् अनाकुलमेतदेकवाक्यमुपपद्यते । इतरथा पुनः, पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्टे, प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावतारयेत् — ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् । ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति च उपसंहरन् एतदेव दर्शयति । श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते । सा च श्रद्धाया अप्त्वे युक्तिः । कारणानुरूपं हि कार्यं भवति । न च श्रद्धाख्यः प्रत्ययः, मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते — पश्वादिभ्य इव हृदयादीनि इति, आप एव श्रद्धाशब्दा भवेयुः । श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् — ‘श्रद्धा वा आपः’ इति । तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः — यथा सिंहपराक्रमो नरः सिंहशब्दो भवति । श्रद्धापूर्वककर्मसमवायाच्च अप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु । श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः, ‘आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे’ इति श्रुतेः ॥ ५ ॥

भूतान्तरयुक्तानामपां गतिमुक्त्वा पुरुषवचस्त्वं तासामाक्षिप्य समाधत्ते -

प्रथम इति ।

ननु प्रथमपदं व्यर्थमुत्तराग्निष्वप्यपामश्रवणादित्याशङ्क्य सोमवृष्ट्यन्नरेतसामब्रूपत्वादुत्तरत्र तासां श्रवणमस्ति, न प्रथम इत्याह -

यदि नामेति ।

पञ्चाग्निष्वपामाहुतित्वे सिद्धे तासां पञ्चम्यामाहुतौ पुरुषवचस्त्वं भवेन्न तत्सिद्धं प्रथमाग्नौ तासामनाहुतित्वादिति शङ्कार्थः । एवं हि श्रद्धाशब्देनापां ग्रहे सति प्रश्नोत्तरोपसंहाराणां संगानादेकार्थत्वादेकवाक्यतोपपद्यते, अग्रहे तु चतुर्ष्वग्निष्वेवापामाहुतित्वाच्चतुर्थ्यामाहुताविति वाच्यं, अतः प्रश्नोपसंहारयोः पञ्चम्यामिति श्रवणात्, प्रथमाग्नावप्याप एव ग्राह्या इति समाधानार्थः । अनपः अद्भ्योऽन्यतः ।

एतदेवेति ।

श्रद्धाशब्दस्याबर्थकत्वं दर्शयतीत्यर्थः ।

उपपत्तेरित्यस्यार्थान्तरमाह -

श्रद्धाकार्यमिति ।

तस्याः श्रद्धाहुतेः सोमः संभवतीत्यादिना श्रद्धासोमादीनां पूर्वपूर्वपरिणामत्वं श्रुतं ततो द्रवपरिणामत्वात्श्रद्धाया अप्त्वं प्रत्ययात्मकमुख्यश्रद्धाया आहुतित्वायोगाच्चेत्यर्थः ।

श्रद्धाशब्दस्याप्सु सूक्ष्मत्वगुणेन वृत्तिमुक्त्वा लक्षणां वक्तुं श्रद्धाया अद्भिरेककर्मयोगित्वं हेतुत्वं वा संबन्धमाह -

श्रद्धापूर्वकेति ।

अस्मै यजमानाय । स्नानाद्यर्थमापः श्रद्धां संनमन्ते जनयन्तीति श्रुत्यर्थः ॥५॥