अपां गतिमुपेत्याद्भिः सह जीवानां गतिमाक्षिप्य समाधत्ते -
अथापीत्यादिना ।
द्युलोकाग्नौ श्रद्धाहुतेः सोमो राजा संभवतीत्युक्त्वा वाक्यशेषे धूमादिमार्गेण आकाशाच्चन्द्रमसं प्राप्ता इष्ट्यादिकारिण एष सोमो राजेत्युक्ताः, अतः सोमराजाशब्दसामान्यादिष्ट्यादिकारिणां जीवानां श्रद्धाशब्दिताद्भिः सह गतिरिह श्रद्धाहुतिवाक्ये प्रतीयत इत्यर्थः ।
तेषां सूक्ष्माभिर्द्रव्यापूर्वरूपाभिः पञ्चीकृताभिरद्भिः संबन्धं वदन् सहगतिं विवृणोति -
तेषां चाग्निहोत्रेति ।
निधनं मरणं तन्निमित्तकमन्त्येष्टिविधानं, असौ यजमानः, स्वर्गाय गच्छत्विति मन्त्रार्थः ।
हुतद्रव्यरूपाणामपां गमने श्रुत्यन्तरमाह -
तथा चेति ।
अग्निहोत्रप्रकरणे जनकेन याज्ञवल्क्यं प्रति 'नत्वेवैनयोः सायंप्रातराहुत्योस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थ' इति षट्प्रश्नाः कृतास्तेषां निर्वचनमपि राज्ञैव 'ते वा एते आहुती हुते उत्क्रामतः तेऽन्तरिक्षद्वारा दिवं गच्छतस्ते दिवमेवाहवनीयं प्रतिष्ठां कुर्वाते दिवं तर्पयतस्ते ततः पुनरावर्तेते ततः पृथिव्यां पुरुषे योषिति च हुते पुरुषरूपेणोत्तिष्ठतः' इति वाक्यशेषेण कृतम् ॥६॥