ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
‘कुर्वन्नेवेह कर्माणि’ (ई. उ. २) इत्यत्र अपरो विशेष आख्यायते । यद्यपि अत्र प्रकरणसामर्थ्यात् विद्वानेव — कुर्वन् — इति सम्बध्यते, तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम् । ‘न कर्म लिप्यते नरे’ (ई. उ. २) इति हि वक्ष्यति । एतदुक्तं भवति — यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे न कर्म लेपाय भवति, विद्यासामर्थ्यादिति — तदेवं विद्या स्तूयते ॥ १४ ॥

नियमवाक्यमज्ञविषयमित्युक्तं विदुषो ज्ञानस्तुत्यर्थं वेत्याह -

स्तुतय इति ।

एवं कर्म कुर्वित्यपि त्वयि नरे नेतो विद्यालब्धाद्ब्रह्मभावादन्यथास्ति कर्मणा संसारो नास्तीति यावत् । यतः कर्म न लिप्यते । अपूर्वरूपलेपाय न भवतीत्यर्थः श्रुतेरिति भावः ॥१४॥