मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायः
चतुर्थः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
उपमर्दं च ॥ १६ ॥
अपि
च
कर्माधिकारहेतोः
क्रियाकारकफललक्षणस्य
समस्तस्य
प्रपञ्चस्य
अविद्याकृतस्य
विद्यासामर्थ्यात्
स्वरूपोपमर्दमामनन्ति
—
‘
यत्र
त्वस्य
सर्वमात्मैवाभूत्तत्केन
कं
पश्येत्तत्केन
कं
जिघ्रेत्
’ (बृ. उ. २ । ४ । १४)
इत्यादिना
।
वेदान्तोदितात्मज्ञानपूर्विकां
तु
कर्माधिकारसिद्धिं
प्रत्याशासानस्य
कर्माधिकारोच्छित्तिरेव
प्रसज्येत
।
तस्मादपि
स्वातन्त्र्यं
विद्यायाः
॥ १६ ॥
उपमर्दं चेति ॥१६॥
;
न केवलमनुपयोगाज्ज्ञानस्य कर्मानङ्गत्वं किन्तु कर्मनाशकत्वाच्चेत्याह -
उपमर्दं चेति ॥१६॥