ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
ऊर्ध्वरेतःसु आश्रमेषु विद्या श्रूयते तत्र कर्माङ्गत्वं विद्याया उपपद्यते, कर्माभावात् हि अग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्तिस्यादेतत् , ऊर्ध्वरेतस आश्रमा श्रूयन्ते वेद इतितदपि नास्तितेऽपि हि वैदिकेषु शब्देष्ववगम्यन्तेत्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्येवमादिषुप्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम् अपाकृतानपाकृतर्णत्रयाणां ऊर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम्तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १७ ॥

किञ्च कर्मतत्त्वज्ञाने नाङ्गाङ्गिभूते भिन्नाधिकारिस्थत्वाद्राजसूयबृहस्पतिसववदित्याह -

ऊर्ध्वेति ।

त्रयो धर्मस्कन्धाः कर्मप्रधाना आश्रमाश्चतुर्थो ब्रह्मसंस्थ इत्यर्थः ।

'ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एव वा अनृणः' इति श्रुतेः । 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः' इति स्मृतेश्च प्राप्तगार्हस्थ्यस्यैव निरस्तर्णत्रयस्य पारिव्राज्यमित्यपि शङ्का न कार्या । ब्रह्मचर्यादेव प्रव्रजेदिति द्वितीयमाश्रममिच्छेत्तमावसेदिति च विधिश्रुतिस्मृतिविरोधेन अर्थवादश्रुतिस्मृत्योरविरक्तविषयत्वागमादित्याह -

प्रतिपन्नेति ।

तस्मादि ति संन्यासनिष्ठत्वादित्यर्थः ॥१७॥