ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
भावशब्दाच्च ॥ २२ ॥
उद्गीथमुपासीत’ (छा. उ. १ । १ । १) सामोपासीत’ (छा. उ. २ । २ । १)अहमुक्थमस्मीति विद्यात्इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्तेते स्तुतिमात्रप्रयोजनतायां व्याहन्येरन्तथा न्यायविदां स्मरणम् — ‘कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्इतिलिङाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्तिप्रतिप्रकरणं फलानि श्राव्यन्तेआपयिता वै कामानां भवति’ (छा. उ. १ । १ । ७) एष ह्येव कामागानस्येष्टे’ (छा. उ. १ । ७ । ९) कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च’ (छा. उ. २ । २ । ३) इत्यादीनितस्मादप्युपासनविधानार्था उद्गीथादिश्रुतयः ॥ २२ ॥

किञ्चात्र विधिकल्प्य इति कृत्वाचिन्तयोक्तं वस्तुतस्तु न कल्प्यः कॢप्तत्वादित्याह -

भावेति ।

न चैवमुपासानाविधिस्तावकत्वं रसतमादिश्रुतीनामिति सांप्रतम् । विध्यपेक्षितविषयार्पकत्वसंभवे स्तुतिलक्षणयोगादिति भावः ।

देवो मदिष्टं कुर्यादिति प्रार्थनादावपि लिङ्गादिप्रयोगादुपासीतेत्यादिशब्दानां कथं विधिपरत्वनिश्चय इत्यत आह -

तथा चेति ।

एतल्लिङ्गादिकं वेदेषूत्सर्गतो नियमेनेष्टसाधनत्वाख्यविधेर्लक्षणं ज्ञापकं स्यात् । उपपदादिबाधके त्वन्यार्थपरमित्यर्थः ।

तदिदमाह -

लिङादीति ।

न च श्लोके पञ्चममित्युक्तेः पञ्चपदानामेव विधिलक्षणत्वं नोपासीतेत्यादीनामिति भ्रमितव्यम् । क्रियासामान्यवाचिनां कृभ्वस्तीनामुदाहरणेन सर्वधातूपरक्तलिङादीनां विधिलक्षणत्वस्य विवक्षितत्वात्पञ्चमपदं तूक्तापेक्षया श्लोकपूरणार्थं मृत्युर्धावति पञ्चम इतिवत् । यद्यपि डुकृञ्करण इति धातेरेव करणशब्दितभावनाख्यक्रियासामान्यवाचित्वं नेतरयोर्धात्वोर्भू सत्तायामस्भुवीत्यर्थान्तरोक्तेः तथापि जन्माख्यभवनस्य तत्फलस्यास्तित्वस्य च प्रयोज्यनिष्ठस्य प्रयोजकव्यापारात्मकभावनाव्याप्तत्वात्तयोः क्रियासामान्यवाचित्वव्यवहारः । तत्र कुर्यादिति प्रकृत्यर्थभावनाख्यातेनानूद्यते यथा द्वाविति प्रयोगे प्रकृत्यर्थो द्वित्वं प्रत्ययेनानूद्यते । तद्वल्लिङा च तस्या इष्टसाधनत्वाख्यविधिर्बोध्यते । कर्ता तु तयाक्षिप्यत इत्याक्षिप्तकर्तृका भावनोदाहृता । तथा क्रियेतेत्यत्रापि प्रकृतिप्रत्ययार्थौ व्याख्यातौ । कर्मात्र प्राधान्येनाक्षिप्यत इत्याक्षिप्तकर्मिकाभावनोदाहृता । आख्यातानां कर्त्रादिकारके शक्त्य भावात्कर्तृकर्मणोराक्षेप एवेति मीमांसकमतम् । कर्तव्यमिति कृत्यप्रत्ययेन कर्मकारकमुच्यते । तस्योपसर्जनत्वेन प्रकृत्या भावनोक्तेति भेदः । तथा दण्डी भवेत्भूयते दण्डिना भवितव्यमित्युदाहर्तव्यम् । तथा स्याद्भूयेत भवितव्यमित्यस्तिधातोरप्युदाहरणं द्रष्टव्यम् । अस्तेर्भूरादेशात् । एतद्धातुत्रयोपरक्तलिङादिभिः सर्वधात्वर्थोपरक्तभावनागतेष्टसाधानत्वरूपो विधिरेक एवोच्यते । धातूनां प्रत्ययानां कर्त्रादिकारकाणां च भेदेऽपि विधिभेदो नास्तीति ज्ञापनार्थं प्रतिधातूदाहरणत्रयं दर्शितमिति सर्वमवदातम् ।

एवं सूत्रे भावो विधिरिति व्याख्याय चशब्दात्फलमिति व्याचष्टे -

प्रतिप्रकरणमिति ।

एष ऋत्विगुपासकः कामागानस्य गानेन फलसंपादनस्येष्टे समर्थ इत्यर्थः । एवमङ्गाश्रितविद्या अपि स्वतन्त्रफलाः किमु वक्तव्यमनङ्गात्मविद्यायाः स्वातन्त्र्यमिति । आत्मविद्यास्वातन्त्र्यो चिन्ताया अस्याः पर्यवसानात्पादसंगतिर्बोध्याः ॥२२॥