क्व तर्हि कथानांविनियोग इत्याशङ्क्य संनिधानाद्विद्यास्वित्याह -
तथा चेति ।
प्ररोचनं प्रीतिजननं स प्रजापतिर्वपामुदखिदथोमायोद्धृतवानित्यस्य प्राजापत्यमजं तूपरमालभेतेति विधिशेषत्वे एवमन्येषां तत्तद्विधिशेषत्वं द्रष्टव्यम् ॥२४॥