सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
प्राणसंवादे श्रूयते छन्दोगानाम् — ‘न ह वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १) इति । तथा वाजसनेयिनाम् — ‘न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतम्’ (बृ. उ. ६ । १ । १४) इति । सर्वमस्यादनीयमेव भवतीत्यर्थः । किमिदं सर्वान्नानुज्ञानं शमादिवत् विद्याङ्गं विधीयते, उत स्तुत्यर्थं सङ्कीर्त्यत इति संशये — विधिरिति तावत्प्राप्तम् । तथा हि प्रवृत्तिविशेषकर उपदेशो भवति । अतः प्राणविद्यासन्निधानात् तदङ्गत्वेन इयं नियमनिवृत्तिरुपदिश्यते । ननु एवं सति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात् — नैष दोषः, सामान्यविशेषभावात् बाधोपपत्तेः । यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाधः, यथा च ‘न काञ्चन परिहरेत्तद्व्रतम्’ (छा. उ. २ । १३ । २) इत्यनेन वामदेव्यविद्याविषयेण सर्वस्त्र्यपरिहारवचनेन सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते — एवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्येतेत्येवं प्राप्ते ब्रूमः —