ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
प्राणसंवादे श्रूयते छन्दोगानाम् वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १) इतितथा वाजसनेयिनाम् वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतम्’ (बृ. उ. ६ । १ । १४) इतिसर्वमस्यादनीयमेव भवतीत्यर्थःकिमिदं सर्वान्नानुज्ञानं शमादिवत् विद्याङ्गं विधीयते, उत स्तुत्यर्थं सङ्कीर्त्यत इति संशयेविधिरिति तावत्प्राप्तम्तथा हि प्रवृत्तिविशेषकर उपदेशो भवतिअतः प्राणविद्यासन्निधानात् तदङ्गत्वेन इयं नियमनिवृत्तिरुपदिश्यतेननु एवं सति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात्नैष दोषः, सामान्यविशेषभावात् बाधोपपत्तेःयथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाधः, यथा काञ्चन परिहरेत्तद्व्रतम्’ (छा. उ. २ । १३ । २) इत्यनेन वामदेव्यविद्याविषयेण सर्वस्त्र्यपरिहारवचनेन सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यतेएवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्येतेत्येवं प्राप्ते ब्रूमः

सर्वान्नानुमतिः ।

एवंविदि प्राणस्यान्नं सर्वमिति ध्यानवतीत्यर्थः । जग्धं भक्षितम् । अपूर्वत्वाद्विध्यश्रुतेश्च संशयः ।

अपूर्वत्वाद्यज्ञादिवद्विधिः कल्प्य इति इति पूर्वपक्षयति -

विधिरिति ।

अत्र भक्ष्याभक्ष्यनियमत्यागस्य विद्याङ्गत्वसिद्धिः फलं सिद्धान्ते तु विद्यास्तुतिरिति विवेकः ।