सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
नेदं सर्वान्नानुज्ञानं विधीयत इति । न हि अत्र विधायकः शब्द उपलभ्यते, ‘न ह वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १) इति वर्तमानापदेशात् । न च असत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते । अपि च श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा, इदमुच्यते — नैवंविदः किञ्चिदनन्नं भवतीति । न च श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यते । शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम् । तस्मात् प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादः, न सर्वान्नानुज्ञानविधिः । तद्दर्शयति — ‘सर्वान्नानुमतिश्च प्राणात्यये’ इति । एतदुक्तं भवति — प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते, तद्दर्शनात् । तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति ‘मटचीहतेषु कुरुषु’ (छा. उ. १ । १० । १) इत्यस्मिन् ब्राह्मणे — चाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामिखादितान्कुल्माषांश्चखाद । अनुपानं तु तदीयम् उच्छिष्टदोषात्प्रत्याचचक्षे । कारणं चात्रोवाच ‘न वा अजीविष्यमिमानखादन्’ (छा. उ. १ । १० । ४) इति, ‘कामो म उदपानम्’ (छा. उ. १ । १० । ४) इति च । पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूव — इति । तदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यते — प्राणात्ययप्रसङ्गे प्राणसन्धारणाय अभक्ष्यमपि भक्षयितव्यमिति; स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापि — इत्यनुपानप्रत्याख्यानाद्गम्यते । तस्मात् अर्थवादः ‘न ह वा एवंविदि’ (छा. उ. ५ । २ । १) इत्येवमादिः ॥ २८ ॥