ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
नेदं सर्वान्नानुज्ञानं विधीयत इति हि अत्र विधायकः शब्द उपलभ्यते, वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १) इति वर्तमानापदेशात् असत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यतेअपि श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा, इदमुच्यतेनैवंविदः किञ्चिदनन्नं भवतीति श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यतेशक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम्तस्मात् प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादः, सर्वान्नानुज्ञानविधिःतद्दर्शयति — ‘सर्वान्नानुमतिश्च प्राणात्ययेइतिएतदुक्तं भवतिप्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते, तद्दर्शनात्तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति मटचीहतेषु कुरुषु’ (छा. उ. १ । १० । १) इत्यस्मिन् ब्राह्मणेचाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामिखादितान्कुल्माषांश्चखादअनुपानं तु तदीयम् उच्छिष्टदोषात्प्रत्याचचक्षेकारणं चात्रोवाच वा अजीविष्यमिमानखादन्’ (छा. उ. १ । १० । ४) इति, कामो उदपानम्’ (छा. उ. १ । १० । ४) इति पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूवइतितदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यतेप्राणात्ययप्रसङ्गे प्राणसन्धारणाय अभक्ष्यमपि भक्षयितव्यमिति; स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापिइत्यनुपानप्रत्याख्यानाद्गम्यतेतस्मात् अर्थवादः वा एवंविदि’ (छा. उ. ५ । २ । १) इत्येवमादिः ॥ २८ ॥

न कलञ्जं भक्ष्येदिति शास्त्रं प्राणविद्व्यतिरिक्तविषयम् । यथा ग्राम्यकर्मणि वामदेव्यसामोपासकव्यतिरिक्तविषयं परस्त्रीनिषेधशास्त्रं तद्वदिति प्राप्ते सिद्धान्तं सूत्राद्बहिरेव दर्शयति -

नेदमिति ।

प्राणविद्याविधिसंनिधेरशक्यत्वाच्च स्तुतिरेव न विधिः कल्प्यः निषेधशास्त्रविरोधात्कॢप्तो हि विधिः सामान्यशास्त्रबाधको नतु कल्प्य इति भावः ।

स्वस्थस्य प्राणविदो न सर्वान्नानुमतिरित्यत्र लिङ्गं वदन् सूत्रं योजयति -

तद्दर्शयतीति ।

मटच्यो रक्तक्षुद्रपक्षिणस्तैर्हतेषु कुरुदेशस्थसस्येषु दुर्भिक्षे जाते बालया सह जायया मुनिर्देशान्तरं गच्छन्निभ्याग्रामे स्थितवानिभ्यो हस्तिपालकस्तेन सामिखादितानर्धभक्षितान् कुत्सितमाषान् याचयित्वा भक्षितवान् । इभ्वेन जलं गृहाणेत्युक्ते सत्युच्छिष्टं वै मे पीतं स्यादिति प्रतिषिध्य माषाः किं नोच्छिष्टा इतीभ्येनोक्ते सति माषभक्षणे जलत्यागे च कारणमुवाच । अन्नांशे मम आपदस्ति । जलपानं तु स्वेच्छातस्तडागादौ लभ्यत इति माषान् खादित्वावशिष्टाञ्जायायै दत्तवान् । सा चानापद्गता पत्युरापदं ज्ञात्वा माषान्संरक्ष्य प्रातस्तस्मै ददौ । स च तान् खादित्वा राज्ञो यज्ञं गत्वा प्रस्तोत्रादीनाक्षिप्य प्राणादिकां प्रास्तावादिदेवतामुपदीश्य धनं प्राप्य स्थित इति भावः । अत्रोच्छिष्टभक्षणजलत्यागात्मकशिष्टाचारलिङ्गाच्छ्रौतादनापदि विदुषाप्यभक्ष्यं न भक्षणीयमिति सूच्यत इति भावः ॥२८ ॥ ॥२९॥