ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अपि च स्मर्यते ॥ ३० ॥
अपि आपदि सर्वान्नभक्षणमपि स्मर्यते विदुषोऽविदुषश्च अविशेषेणजीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततःलिप्यते पापेन पद्मपत्रमिवाम्भसा’ (म.स्मृ. १० । १०४) इतितथा मद्यं नित्यं ब्राह्मणः’ (गौ॰ध॰सू॰ १-२-२५), सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः’ (गौ. ध. सू. ३ । ५ । १), ‘सुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्इति स्मर्यते वर्जनमनन्नस्य ॥ ३० ॥

सुरापानेनापि जीवनमाशङ्क्य कदापि तन्न कार्यमित्याह -

तथा मद्यं नित्यं ब्रह्मण इति ।

वर्जयोदिति शेषः ।

कुत इत्याशङ्क्य मरणान्तप्रायश्चित्तविधानादित्याह -

सुरापस्येति ।

उष्णामतितप्तां सुरामिति शेषः ।

इतश्च सा न पेयेत्याह -

सुरापा इति ॥३०॥