ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दश्चातोऽकामकारे ॥ ३१ ॥
शब्दश्च अनन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः कठानां संहितायां श्रूयते — ‘तस्माद्ब्राह्मणः सुरां पिबेत्इतिसोऽपि वा एवंविदि’ (छा. उ. ५ । २ । १) इत्यस्यार्थवादत्वात् उपपन्नतरो भवतितस्मादेवंजातीयका अर्थवादा विधय इति ॥ ३१ ॥

उदाहृतस्मृतीनां मूलश्रुतिमाह -

शब्दश्चेति ।

कामकारो यथेष्टप्रवृत्तिः सोऽपि निषेधोऽपि उपपन्नतरो भवति । न ह वा एवंविदीत्यस्यार्थवादत्वात् । यद्ययमपि विधिः स्यात्तर्हि विहितप्रतिषिद्धत्वात्षोडशिग्रहणाग्रहणवत्सुरापाने विकल्पः स्यात्स च सर्वस्मृतिभिः शिष्टाचारेण च विरुद्ध इति तात्पर्यार्थः ॥३१॥