विहितत्वाच्चाश्रमकर्मापि ।
नित्याग्निहोत्रादिकर्मसु विहितत्वाद्विनियुक्तविनियोगविरोधाच्च संशये शास्त्रान्तरविरोधात्सर्वान्नत्वोक्तेः स्तुतित्ववन्नित्यविनियुक्तत्वश्रुतिविरोधाद्विविदिषायां विनियोगश्रुतेः स्तुतित्वमिति पूर्वपक्षमाह -
तत्रेति ।
ज्ञानकामनयानुष्ठाने कर्मणामनित्यत्वमनावश्यकत्वम् । तस्या अनित्यत्वाद्यावज्जीवादिविधिना तु नित्यत्वं चेति विरुद्धधर्मद्वयापाताद्विविदिषाश्रुतेः स्तुतित्वमिति फलं पूर्वपक्षे । सिद्धान्ते तूभयथानुष्ठानं फलम् ॥३२॥