ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
‘सर्वापेक्षा च’ (ब्र. सू. ३ । ४ । २६) इत्यत्र आश्रमकर्मणां विद्यासाधनत्वमवधारितम्; इदानीं तु किममुमुक्षोरप्याश्रममात्रनिष्ठस्य विद्यामकामयमानस्य तान्यनुष्ठेयानि, उताहो नेति चिन्त्यते । तत्र ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ. उ. ४ । ४ । २२) इत्यादिना आश्रमकर्मणां विद्यासाधनत्वेन विहितत्वात् विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यान्यननुष्ठेयानि । अथ तस्याप्यनुष्ठेयानि, न तर्हि एषां विद्यासाधनत्वम् , नित्यानित्यसंयोगविरोधात् — इत्यस्यां प्राप्तौ, पठति — आश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिना विहितत्वात्; न हि वचनस्यातिभारो नाम कश्चिदस्ति ॥ ३२ ॥

विहितत्वाच्चाश्रमकर्मापि ।

नित्याग्निहोत्रादिकर्मसु विहितत्वाद्विनियुक्तविनियोगविरोधाच्च संशये शास्त्रान्तरविरोधात्सर्वान्नत्वोक्तेः स्तुतित्ववन्नित्यविनियुक्तत्वश्रुतिविरोधाद्विविदिषायां विनियोगश्रुतेः स्तुतित्वमिति पूर्वपक्षमाह -

तत्रेति ।

ज्ञानकामनयानुष्ठाने कर्मणामनित्यत्वमनावश्यकत्वम् । तस्या अनित्यत्वाद्यावज्जीवादिविधिना तु नित्यत्वं चेति विरुद्धधर्मद्वयापाताद्विविदिषाश्रुतेः स्तुतित्वमिति फलं पूर्वपक्षे । सिद्धान्ते तूभयथानुष्ठानं फलम् ॥३२॥