सहकारित्वेन च ॥ ३३ ॥
विद्यासहकारीणि च एतानि स्युः, विहितत्वादेव ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ इत्यादिना; तदुक्तम् — ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६) इति । न चेदं विद्यासहकारित्ववचनमाश्रमकर्मणां प्रयाजादिवत् विद्याफलविषयं मन्तव्यम् , अविधिलक्षणत्वाद्विद्यायाः, असाध्यत्वाच्च विद्याफलस्य । विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरम् अपेक्षते, नैवं विद्या । तथा चोक्तम् — ‘अत एव चाग्नीन्धनाद्यनपेक्षा’ (ब्र. सू. ३ । ४ । २५) इति । तस्मादुत्पत्तिसाधनत्व एव एषां सहकारित्ववाचोयुक्तिः । न च अत्र नित्यानित्यसंयोगविरोध आशङ्क्यः, कर्माभेदेऽपि संयोगभेदात् । नित्यो हि एकः संयोगो यावज्जीवादिवाक्यकल्पितः, न तस्य विद्याफलत्वम् । अनित्यस्तु अपरः संयोगः ‘तमेतं वेदानुवचनेन’ (बृ. उ. ४ । ४ । २२) इत्यादिवाक्यकल्पितः, तस्य विद्याफलत्वम् — यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम् , अनित्येन संयोगेन पुरुषार्थत्वम् , तद्वत् ॥ ३३ ॥